रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 73, कुल 520 में से
संदर्भ में पढ़ें28 रत्नावली
तथाहि—
कीर्णैः पिष्टातकौघैः कृतदिवसमुखैः कुङ्कुमक्षोदगौरै¹-
र्हेमालङ्कारभाभिर्भरनमितशिरः²शेखरैः कैङ्किरातैः ।
एषा वेषाभिलक्ष्यस्वविभवविजिताशेषवित्तेशकोशा
कौशाम्बी शातकुम्भद्रवखचितजनेवैकपीता विभाति ॥१०॥
अपिच—
धारायन्त्रविमुक्तसन्ततपयःपूरैः स्नुते³ सर्व्वतः
सद्यः सान्द्रविमर्दकर्द्दमकृतक्रोड़े क्षणं प्राङ्गणे ।
उद्दामप्रमदाकपोलनिपतत्सिन्दूररागारुणैः⁴
सैन्दूरीक्रियते जनेन⁵ चरणन्यासैः पुरः कुट्टिमम् ॥११॥
विदूषकः । (विलोक्य) एव्वं पि सुविअद्ध-जणजलभरि-
दसिङ्गकजलप्पहारमुक्कसिक्कारमणोहरं बारविलासिणीजणविल-
सिदं आलोएदु पियवयस्सो । (क)
(क) एवमपि सुविदग्धजनजलभरितशृङ्गकजलप्रहारमुक्तसीत्कारमनोहरं वार-
विलासिनीजनविलसितमालोकयतु प्रियवयस्यः ।
तथाहि । कीर्णैः उत्क्षिप्तैः कुङ्कुमक्षोदगौरैः कुङ्कुमस्य चूर्णवत् गौरैः अरुणैः
‘गौरोऽरुणे’ इत्यमरः । कृतदिवसमुखैः कृतं दिवसस्य मुखं प्रत्यूष इत्यर्थः, यैः उत्कीर्णारुण-
पटवासैः निखिलदिवसं प्रत्यूष इव विभातीत्याशयः । तद्वत् पिष्टातकौघैः पटवास-
पुञ्जौः हेमालङ्कारभाभिः सुवर्णालङ्कारदीप्तिभिः । कैङ्किरातैः किङ्किराताः अशोकाः तेषां
विकारैः पुष्पैरित्यर्थः । भरेण नमितम् आनतं शिरसः शेखराणि येषां तैरशोकपुष्पैः अरुण-
वर्णैः, भरनमितशिखैः इति पाठे शेखरैः इत्यस्य विशेषणत्वम् । वेषेण वस्त्रादिना
1 क्षोदवासैः । 2 नमितशिखैः । 3 प्लुते । 4 विकसत्सिन्दूरसान्द्रारुणम् ।
5 जनस्य ।