रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 58, कुल 520 में से
संदर्भ में पढ़ेंप्रस्तावना 13
ईप्सितफललाभस्य पदम् आस्पदं कारणमिति यावत् । किं पुनः अधिकं किं ब्रवीमीत्यर्थः
मद्भाग्योपचयात् मम सौभाग्यातिशयात् सर्व्वः गुणानां गणः समुदितः मिलितः, तेन
साफल्यलाभविषये कोऽपि सन्देहो नास्तीति आशयः । शार्दूलविक्रीड़ितं वृत्तम्—तल्लक्षणं—
“सूर्याश्वैर्मसजस्ततः सगुरवः शार्दूलविक्रीड़ितम्” ॥ ५ ॥
Prose श्रीहर्षः निपुणः कविः ( भवति ), एषा परिषद् अपि गुण-
ग्राहिणी ( भवति ), लोके वत्सराजचरितं हारि, वयं च नाट्ये दक्षाः ( भवामः ), इह
एकैकं वस्तु अपि वाञ्छितफलप्राप्तेः पदम्, किं पुनः मद्भाग्योपचयात् सर्व्वः गुणानां
गणः समुदितः ॥ ५ ॥
Beng. Trans. শ্রীহর্ষ নিপুণ কবি, শ্রোতৃমণ্ডলী গুণগ্রাহী, বৎসরাজ উদয়নের
চরিত্র সাধারণের চিত্তাকর্ষক, আমরাও নাট্যকলায় সুনিপুণ। এস্থলে প্রত্যেক বিষয়টি
অভীষ্টফললাভের কারণ স্বরূপ; আর অধিক কি বলিব, আমার সৌভাগ্যাতিশয়ের ফলে
সকল সদ্গুণ একত্র সম্মিলিত হইয়াছে। ৫।
Eng Trans. Shri Harsha is a skilful poet ; this audience
is also capable of appreciating the merits (of performance ) ; we
too are adept in the histrionic art ;—any one of these is suffi-
cient on such occasions for the attainment of desired results ;
what to speak more—through excessive good luck of mine all
the excellences have accumulated together. 5.
तद् यावदहं गृहं गत्वा गृहिणीमाहूय सङ्गीतकमनु-
तिष्ठामि । ( परिक्रम्य नेपथ्याभिमुखमवलोक्य¹ च ) इदमस्मदीयं गृहम् ।
यावत् प्रविशामि । ( प्रविश्य—उच्चैः ) आर्ये, इतस्तावत् ।
( प्रविश्य )
नटी—अज्जउत्त, इअम्हि । आणवेदु अज्जो को णिओओ
अणुचिट्ठीअदुत्ति । (क)
(क) आर्य्यपुत्र, इयमस्मि । आज्ञापयतु आर्य्यः को नियोगः अनुष्ठीयताम् इति ।
सङ्गीतमेव सङ्गीतकं स्वार्थे कप्रत्ययः । आर्य्यपुत्र इति सूत्रधारं प्रति नट्याः सम्बोधनम् ।
1 विलोक्य ।