रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 56, कुल 520 में से
संदर्भ में पढ़ेंप्रस्तावना 11
राजानुकूल्यार्थं कामदेवपूजनं संक्षेपेण सूच्यते । औत्सुक्येन कृतत्वरा इत्यादिना
द्वितीयेन श्लोकेन बन्धूकपूजनेन पतिसांमुख्यमानीतया गौर्या चारुताजलकेलिरङ्गादावुपलम्भ-
हारिण द्वितीयाङ्के सागरिकायाः सुसदृशतया राजसमीपनयनं तद्दर्शनेन नायिकायाश्च
सात्त्विकभावोद्रेकः इत्यादिद्वितीयाङ्कतातपर्य्यं समासतः व्यज्यते । क्रोधिष्टं रित्यादितृतीयेन श्लोकेन
दग्धशशविनाशार्थं शिवक्रोधवर्णनद्वारेण देव्याः वासवदत्तायाः क्रोधः, दग्धतुल्या शिवक्रोध-
प्रशमनवर्णनेन राज्ञः देवीप्रसादनं, दग्धपल्लविलापवर्णनद्वारा सागरिकायाः असहायावस्था
चेति तृतीयाङ्कार्थः समासेन उपक्षिप्यते । चतुर्थश्लोकेन राज्ञः प्रकृतीनाञ्च सामान्यतः अभ्यु-
दयवर्णनेन चतुर्थाङ्के राज्ञः उदयनस्य कोशलविजयसागरिकालाभादयः काव्यार्थाः
सूचिताः । अत्र नान्दीश्लोकानां चतुष्कलात् चतुर्षु श्लोकेषु च पुनः षोडशपादानां वर्त्तमान-
त्वात् 'श्लोकपादः पदं केचित् सुप्तिङन्तमथापरे । परेऽवान्तरवाक्यैकस्वरूपं पदमूचिरे'
इति पदलक्षणेन इयं षोडशपदा नान्दी पत्रावलीसंज्ञा, अभिधेयस्यवस्तुनः समासेनाख्या
विन्यासात् । विस्तरस्तु आङ्गलभाषाटीकायां द्रष्टव्यः ।
नान्दीश्लोकान् समाप्य आह—नान्द्यन्ते । ततः सूत्रधारस्य प्रवेशः । सूत्रधारः इति । सूत्रं
प्रयोगव्यवस्थां यः धारयति स सूत्रधारः । अलमतिविस्तरेण । अधिकनान्दीश्लोकपाठेन प्रयोक्त-
व्यस्य वस्तुनः उपक्षेपे बिलम्बो मा भूदिति निषेधः । वसन्तोत्सवे मधूत्सवे फाल्गुनपौर्ण-
मासीमारभ्य पञ्चमीपर्य्यन्तं वर्त्तमाने इत्यर्थः । सबहुमानम् सयत्नम् । पादपद्मोपजीविना
एतेन श्रीहर्षदेवस्य सार्व्वभौमत्वं सूच्यते । अपूर्व्ववस्तुरचनालङ्कृता वत्सराजोदयनस्य चरित-
रूपं लोकमनोहारि वस्तु तस्य रचनया अलङ्कृता शोभिता । श्रोत्रपरम्परया श्रोत्राणां परम्परा
तया । प्रयोगतः अभिनयेन इत्यर्थः । सकलजनहृदयाह्लादिनः एतेन राज्ञः श्रीहर्षस्य
प्रकृतिप्रियत्वं व्यज्यते । अनुगृह्णीताः प्रयोगेण अनुगृहीता भविष्याम इत्यर्थः । यथा-
वत्प्रयोगेण नाटयितव्या अभिनेतव्या । नेपथ्यरचनां वेषरचनां "आकल्पो वेषो नेपथ्यम्"
इति । यथाभिलषितम् यथेप्सितं राजसमूहेनेत्यर्थः । आवर्जितानि वशीकृतानि अभिमुखी-
कृतानि इति यावत् । निश्चयः सन्देहाभावः ।
Beng. Trans. सूत्रधार—आर वाग्विस्तारेर प्रयोजन नाई। अद्य एई
बसन्तोत्सबे महाराज श्रीहर्षेर पादपद्मोपजीवी राजन्यवर्ग नानादिक् ओ देश हईते .
आसिया बहु सम्मान प्रदर्शनपूर्वक आमाके आदेश करियाछेन ये—'आमादेर प्रभु
महाराज श्रीहर्ष ये अपूर्व्व कथावस्तु रचना द्वारा परिशोभित रत्नावलीनामक नाटिका