रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 479, कुल 520 में से
संदर्भ में पढ़ें434 रत्नावली
श्रुत्वेति मन्त्रिवचनं सेनापतिरभाषत ।
चक्रवर्त्तिवधूः सा हि भाविनीति श्रुतं मया ॥१३॥
न हि वासवदत्तायां सत्तायास्मै महीभुजे ।
ददाति मगधाधीशो याचितोऽपि प्रियां सुताम् ॥१४॥
इत्याकर्ण्याब्रवीन्मन्त्री दग्धा देवीति कृत्रिमम् ।
कृत्वा प्रयोगं सावद्यं लभ्यते मगधात्मजा ॥१५॥
मन्त्रयित्वेति विश्रब्धं बहु यौगन्धरायणः ।
गोपालमानिनायाशु स्वपुरीं नृपसेवने ॥५५॥
कृत्वा विदितवृत्तान्तं तं नरेन्द्रहिते रतम् ।
कूटं वासवदत्तायाः दाहे निश्चयमाप्तवान् ॥५६॥
स लावाणकयात्रायां चक्रे भूपतिमुत्सुकम् ।
देवी च को हि जानीते चरितं प्रौढमन्त्रिणाम् ॥५७॥
अथ तस्मिन् मृगयायां क्रीडार्थं विपिनं गते ।
यौगन्धरायणोऽभ्येत्य सार्धं गोपालकादिभिः ॥७१॥
कृत्वा ज्ञातकथां देवीं प्राणैः पत्युरिहैषिणीम् ।
गूढं वसन्तकोपेतां निनाय मगधान् क्षणात् ॥७२॥
तेषु यातेषु मगधान् गोपालोऽपि रुमण्वता ।
सह लावाणकं दग्ध्वा गूढमन्वचरोऽभवत् ॥७४॥
मन्त्री वृद्धद्विजाकारः प्रविश्य मगधापतेः ।
कन्यकान्तःपुरं प्राह प्रौढः पद्मावतीं शनैः ॥७५॥
राजपुत्री सुतेयं मे रूपिणी तनयोऽप्ययम् ।
अन्वेष्टुमस्या गच्छामि चिरविप्रोषितं पतिम् ॥७६॥
निक्षिप्तेयं त्वयि मया सुतस्यायं प्रियंवदः ।
इत्युक्त्वा प्रययौ मन्त्री तथेत्यभिहितस्तया ॥७७॥
अवन्तिकाभिधानां तां कृत्वा वीक्ष्य द्विजन्मजाम् ।
मागधी देवतां मेने 'रूपलावण्यराशिभिः ॥७८॥