रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 475, कुल 520 में से
संदर्भ में पढ़ें430 रत्नावली
सुतेवाश्वासिता तव कृपया मम दयिता ।
असूत तनयं काले सेनान्यमिव पार्वती ॥५१॥
तस्याकाशभवा वाणी चकारोदयनाभिधाम् ।
निजवंशशशाङ्कस्य भविष्यच्चक्रवर्त्तिनः ॥५२॥
आश्रमे स मुनीन्द्रेण कृतचूडादिकस्ततः ।
ववृधे बालकशशी सह मातुर्मनोरथैः ॥५३॥
विद्याकलाकलितधीर्युवा नयननन्दनः ।
सोऽपश्यन् मृगयासक्तो व्याधबद्धं भुजङ्गमम् ॥५४॥
स सर्पो मोचितस्तेन नागो भूत्वा कृताञ्जलिः ।
सख्यं विधाय पातालं निनाय तमुदारधीः ॥५५॥
पाताले प्रेमविनतस्तं वयस्यमपूजयत् ।
भगिनीं ललिताभिख्यां ददावुदयनाय सः ॥५७॥
ताम्बूलं स्रजमम्लानां वीणां घोषवतीमपि ।
अवाप्य राजतनयः फणीन्द्रात् स्वाश्रयं ययौ ॥६०॥
अत्रान्तरे स शबरः कौशाम्ब्यां वणिजं ययौ ।
सहस्रानीकनामाङ्कमणिकङ्कणविक्रयी ॥६२॥
आदाय रत्नकटकं स बिभीतो महीभुजे ।
निवेद्य शबरीपतेः प्रणम्य स ययौ वणिक् ॥६३॥
मृगावतीवियोगाग्निदह्यमानतनुर्नृपः ।
तदाह्ववल्लरीसङ्गसुघटं प्राप्य कङ्कणम् ॥६४॥
मुनिना पूजितस्तत्र दयितां विरहार्दिताम् ।
लेभे हर्षविशीर्णाक्षस्तनयं चातुलद्युतिः ॥१४०॥
अयं त्वत्तो नरपते मृगावत्यां यशोनिधिः ।
जातः श्रीमान् शुभो जेता धनञ्जय इवापरः ॥१४१॥
उक्तेति मुनिना दत्तं गृहीत्वोदयनं नृपः ।
प्रियसहायः स्वपुरीं प्रतस्थे मन्त्रिभिर्वृतः ॥१४२॥