रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 428, कुल 520 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः 383
भौमो राजा भविष्यति । ततस्तत्प्रत्ययादस्माभिः ¹स्वामिनो-
ऽर्थे बहुशः प्रार्थ्यमानेनापि सिंहलेश्वरेण देव्या वासवदत्ताया-
श्चित्तखेदं परिहरता यदा न दत्ता—
राजा—तदा किम् ?
यौगन्ध—(सलज्जम्) तदा लावाणकेन वह्निना देवी दग्धेति
प्रसिद्धिमूत्पाद्य तदन्तिकं बाभ्रव्यः प्रहितः ।
राजा—यौगन्धरायण ! ततः परं श्रुतं मया । अथेयं देवी-
हस्ते किमित्यनुचिन्त्य स्थापिता ?
विदूषकः—भो ²एदस्स अभिप्पाओ मया जाणिदो । अणा-
चक्खिदं वि एदं जाणीअदि एव्व जह अंतेउरगदं एदं जाब
अंतेउरगदो देवो सुहेण पेक्खिस्सदि । (क)
राजा—यौगन्धरायण ! ³गृहीतस्तेऽभिप्रायो वसन्तकेन ?
यौगन्ध—यदाज्ञापयति देवः ।
राजा—ऐन्द्रजालिकवृत्तान्तोऽपि मन्ये त्वत्प्रयोग एव ?
यौगन्ध—अन्यथान्तःपुरे बद्धायाः अस्याः कुतो देवेन
दर्शनम् ? अदृष्टायाश्च वसुभूतेः कुतः परिज्ञानम् ? (विचिन्त्य)
परिज्ञातायाश्च भगिन्याः सम्प्रति यथा करणीयं तत्र देवी
प्रमाणम् ।
(क) भोः, एतस्य अभिप्रायः मया ज्ञातः । अनाख्यातमपि एतद् ज्ञायते एव यथा
अन्तःपुरगतां एतां यावद् अन्तःपुरगतो देवः सुखेन प्रेक्षिष्यते ।
- स्वाम्यर्थम् । 2. भो अणाचक्खिदं वि एदं जाणीयदि जहा अन्तेउरगदा
सुहेण दे णयणपहं गमिस्सदिन्ति । 3. गृहीताभिप्रायोऽसि ।