सामग्री पर जाएँ
सर्वकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 424, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 424

चतुर्थोऽङ्कः ३७९
( रत्नावली लज्जितं नाटयति¹ )
वासवदत्ता—( अपवार्य ) अज्जउत्त ! लज्जेमि अहं इमिणा
अत्तणो णिसंसत्तणेण । ता लहुं अवणेहि से एदं बंधणं । (क)
राजा—( सपरितोषम् ) यथाह देवी । ( इति सागरिकाया बन्धन-
मपनयति² )
वासवदत्ता—अज्जउत्त ! अमच्चजोअंधराअणेण एत्तिअ
कालं दुज्जणीकिदम्हि । जेण जाणंतेण वि ण मे णिवे-
दिटं । (ख)
( ततः प्रविशति यौगन्धरायणः )
यौगन्धरायणः—
देव्या मद्वचनात् प्रथामुपेगतः³ पत्युर्वियोगस्तदा⁴
मा देव्यन्यकलत्रसङ्घटनया दुःखं परं प्रापिता ।
तस्याः प्रीतिमयं करिष्यति जगत्स्वामित्वलाभः प्रभोः
सत्यं दर्शयितुं तथापि वदनं शक्नोमि नो लज्जया ॥२०॥
अथवा किं क्रियते ? ईदृशमत्यन्तमाननीयेष्वपि निरनु-
रोधवृत्ति स्वामिभक्तिव्रतम् । (निरूप्य⁵ ) अयं देवो महाराजः⁶ !
यावदुपसर्पामि । ( उपसृत्य ) जयतु जयतु देवः । ( पादयोर्निपत्य )
देव ! क्षम्यतां यन्मयानिवेद्य कृतम्⁷ ।
(क) आर्यपुत्र ! लज्जेऽहम् अनेन आत्मनो नृशंसत्वेन । तल्लघु अपनय अस्याः
इदं बन्धनम् । (ख) आर्यपुत्र ! अमात्ययौगन्धरायणेन एतावत्कालं दुर्जनीकृतास्मि, येन
जानतापि न मे निवेदितम् ।

  1. ( इति कण्ठे गृह्णाति ; रत्नावली लज्जितं नाटयति ) 2. (इति तथा करोति) ।
  2. मद्वचनाद् यदाभ्युपगतः । 4. मया । 5. विलोक्य । 6. अयं देवः । 7. मया
    देवस्य अनिवेद्य ।