सामग्री पर जाएँ
सर्वकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 375, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 375

330 रत्नावली
राजा—कथमुज्जयिनीं प्रेषिता ! अहो निरनुरोधिता मयि
देव्याः¹ ! वयस्य ! केन तवैतदाख्यातम् ?
विदूषकः—²भो ! सुसंगदाए । अण्णं च—मम हत्थे ताए
केणावि कज्जेण³ इअं रअणमाला पेसिदा । (क)
राजा—किमपरं मामाश्वासयितुम् ! तद्वयस्य ! उपनय ।
( विदूषक उपनयति )
राजा—( गृहीत्वा रत्नमालां निर्वर्ण्य हृदये निधाय ) अहह !
कण्ठाश्लेषं समासाद्य तस्याः प्रभ्रष्टयानया ।
तुल्यावस्था सखीवेयं तनुराश्वास्यते मम ॥४॥
वयस्य ! त्वं परिधत्स्वैनाम्, येन वयमेनामपि तावद्दृष्ट्वा
धृतिं करिष्यामः ।
विदूषकः—भो ! जं भवं आणवेदित्ति । (इति कण्ठे परि-
दधाति ) (ख)
राजा—( सास्रं निःश्वस्य ) वयस्य ! दुर्लभं पुनर्दर्शनं प्रियायाः ।
(क) भोः, सुसङ्गतया । अन्यच्च—मम हस्ते तया केनापि कार्येण इयं रत्नमाला
प्रेषिता ।
(ख) भोः, यद् भवान् आज्ञापयति ।
व्यक्तम् स्पष्टम् । उत्सृष्टं त्यक्तम् । प्राणाः इति । अदक्षिणम् अनुदारम् । दक्षिणाः
उदाराः । सरलाः प्राणा इति शेषः । शीघ्रं यदि न यात मां यदि न त्यजत इत्यर्थः ।
तत् मुषिताः स्वञ्चरिताः वञ्चिता भवत इति यावत् । मूढाः मुग्धाः प्राणाः इति शेषः ।
गजगामिनी सागरिकेत्यर्थः । तस्यां यातायां मे प्राणानां नास्ति किञ्चित् प्रयोजनमित्यर्थः ॥३॥
निरनुरोधिता निःशेषेण अनुरोधः अनुवर्तनम् अस्याः अस्तीति निरनुरोधिनी । तस्याः भावः
निरनुरोधिता प्रतिकूलाचरणमिति भावः । आख्यातम् कथितम् । कण्ठाश्लेषमिति । तस्याः
१. निरनुरोधा मयि देवी । २. ( सास्रं निःश्वस्य ) ३. किं वि णिमित्तं ।