रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 367, कुल 520 में से
संदर्भ में पढ़ें322 रत्नावली
वसन्तकः—(गहीत्वा णिरूप्प¹ सविस्मयम्) भोदि ! कुदो उण
ईदिसस्स अलंकारस्स समागमो ? (क)
सुसङ्गता—अज्ज ! मएवि सा कौतूहलेण पुच्छिदा
आसि² । (ख)
वसन्तकः—तदा ताए किं भणिदं ? (ग)
सुसङ्गता—तदो सा उद्धं पेक्खिअ दीहं निस्ससिअ—सुसंगदे !
किं दाणिं तुह इमाए कथाएत्ति—भणिअ रोदितुं³ पउत्ता । (घ)
वसन्तकः—णं कथिदं एव्व ताए⁴ । सामञ्जणदुलहेण
इमिणा परिच्छदेण सब्बथा महाभिजणसमुप्पण्णाए ताए
होदव्वं । सुसंगदे ! पिअवअस्सो दाणिं कहिं ? (ङ)
सुसङ्गता—अज्ज ! एसो क्खु भट्टा देवीभवणादो निक्कमिअ
फडिहसिलामंडवं गदो । ता गच्छदु अज्जो । अहंपि देवीए
बासबदत्ताए परिचारिणी⁵ भविस्सं । (च)
(इति निष्क्रान्तौ)
इति प्रवेशकः
(क) भवति, कुतः पुनः ईदृशस्य अलङ्कारस्य समागमः ? (ख) आर्य, मयापि
कौतूहलेन पृष्टा चासीत् ।
(ग) तदा तया किं भणितम् ?
(घ) ततः सा ऊर्ध्वं प्रेक्ष्य दीर्घं निःश्वस्य—सुसङ्गते, किमिदानीं तव अनया कथयेति
भणित्वा रोदितुं प्रवृत्ता ।
(ङ) ननु कथितमेव तया । सामान्यजनदुर्लभेण अनेन परिच्छदेन महाभिजन-
सम्पन्नया तया भवितव्यम् । सुसङ्गते, प्रियवयस्य इदानीं क्व ?
(च) आर्य, एष खलु भर्त्ता देवीभवनात् निष्क्रम्य स्फटिकशिलामण्डपं गतः । तद्
गच्छतु आर्यः । अहमपि देव्याः वासवदत्तायाः परिचारिणी भविष्यामि ।
- निर्वण्यं । 2. मएवि कौतूहलेण पुच्छिदं अब्वे । 3. रोइदुं । 4. मए ।
- पल्लवणिधी ।