रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 321, कुल 520 में से
संदर्भ में पढ़ें276 रत्नावलो
राजा—अयि मुग्धे ! किमद्यापि मध्यस्थतया वयं विफल-
मनोरथाः क्रियामहे ?
काञ्चन—(कर्णं दत्त्वा) भट्टिणि ! जह समीबे एसो भट्टा मंतयदि
तह तक्केमि तुमं ज्जेव्व अणुणेदुं आगच्छदि । ता उबसप्पदु
भट्टिणो । (क)
वासबदत्ता—ता अलक्खिदा एव्व पुट्ठदो गटुअ कंठे
गेह्रिअ पसादइस्सं । (ख)
विदूषकः—भोदि साअरिए ! बीसद्धा भविअ पिअबअस्स'
आलावेहि । (ग)
वासवदत्ता—(आकर्ण्य सविषादम्) कंचणमाले ! 'साअरिश्रा-
बि एत्थ एव्व चिट्ठदि । ता सुणह्म । जाणिअ पच्छा उब-
सप्पिस्सं । (इति तथा करोति) (घ)
सागरिका—भट्टा ! किं एदिणा अलीकदक्खिणेण ?
जीविदादो बि अहिअवल्लहाए देवीए पुणोबि अत्ताणअं अबरा-
हिणं किं करेसि ? (ङ)
(क) भर्त्रि, यथा समीपे एष भर्त्ता मन्त्रयते, तथा तर्कयामि त्वामेव अनुनेतुम्
आगच्छति । तद् उपसर्पतु भर्त्री ।
•(ख) तद् अलक्षिता एव पृष्ठतः गत्वा कण्ठे गृहीत्वा प्रसादयिष्यामि ।
(ग) भवति सागरिके, विश्रब्धा भूत्वा प्रियवयस्यम् आलापय ।
(घ) काञ्चनमाले, सागरिकापि अत्र तिष्ठति । तच्छृणुवः । ज्ञात्वा पश्चात् उप-
सर्पिष्यामि ।
(ङ) भर्तः, किमेतेन अलीकदाक्षिण्येन ? जीवितादपि अधिकवल्लभायाः देव्याः
पुनरपि आत्मानम् अपराधिनं किं करोषि ?
- कहं साअरिआ इदी जेव्व बाअदा !