सामग्री पर जाएँ
सर्वकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 306, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 306

तृतीयोऽङ्कः 261
वासवदत्ता—अज्ज वसंतअ ! ¹णं पढमसंगमे विग्धं करं-
तीए मए ज्जेव्व एदस्स अवरद्धं । (क)
राजा—²एवं प्रत्यक्षदृष्टव्यलीकः किं ब्रवीमि !
तथापि विज्ञापयामि—
आताम्रतामपनयामि विवर्ण³ एष
लाक्षाकृतां चरणयोस्तव देवि मूर्ध्ना ।
कोपोपरागजनितां तु मुखेन्दुबिम्बे
हर्तुं क्षमो यदि परं करुणा मयि स्यात् ॥ १४॥
( इति पादयोः पतति )
वासवदत्ता—( हस्तेन वारयन्ती ) अज्जउत्त ! उट्ठेहि उट्ठेहि ।
णिल्लज्जो क्खु एसो जणो जो अज्जउत्तस्स ईदिसं हिअअं
जाणिअ पुणोबि कुप्पदि ! ता सुहं चिट्ठदु अज्जउत्तो । अहं
गमिस्सं । (ख)
( इति गन्तुमिच्छति )
काञ्चनमाला—भट्टिणि ! करेहि से पसादं । एव्वं चरण-
(क) आर्य्य वसन्तक, ननु प्रथमसङ्गमे विघ्नं कुर्व्वत्या मया एव एतस्य
अपराधम् ।
(ख) आर्य्यपुत्र, उत्तिष्ठ उत्तिष्ठ । निर्लज्जः खलु एष जनो य आर्य्यपुत्रस्य
ईदृशं हृदयं ज्ञात्वा पुनरपि कुप्यति ! तत् सुखं तिष्ठतु आर्य्यपुत्रः । अहं
गमिष्यामि ।

  1. णं अज्जउत्तेण । 2. देवि ! एवं प्रत्यक्षव्यलीकः । 3. विलक्षः ।