सामग्री पर जाएँ
सर्वकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 296, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 296

तृतीयाेऽङ्कः 251
विदूषकः—( ससम्भ्रमम् ) णं एसा । (क)
राजा—( उपसृत्य ) प्रिये सागरिके !
शीतांशुर्मुखमुत्पले तव दृशौ पद्मानुकारौ करौ
रम्भागर्भनिभं तवोरुयुगलं बाहू मृणालोपमौ ।
इत्याह्लादकराखिलाङ्गि ! रभसान्निःशङ्कमालिङ्ग्य मा-
मङ्गानि त्वमनङ्गतप्तविधुराण्येह्येहि निर्वापय ॥ ११॥
वासवदत्ता—( अपवार्य ) कंचणमाले ! एब्वं सअं मंतदि
अज्जउत्तो ! पुणोवि मं कहं आलविस्सदित्ति अहो
अच्चरिअं ! (ख)
काञ्चनमाला—( अपवार्य ) भट्टिणि ! एब्वं णेदं । किं उण
अवरं साहसिआणं पुरिसाणं ण संभाबीअदि ! (ग)
(क) ननु एषा ।
(ख) काञ्चनमाले, एवं स्वयं मन्यते आर्यपुत्रः ! पुनरपि मां कथं चालपिष्यतीति
अहो आश्चर्यम् !
(ग) भर्तृ, एवं स्विदम् । किं पुनरपरं साहसिकानं पुरुषाणां न सम्भाव्यते !
तर्ज्यन्ती भर्त्सयन्ती । मृगलाञ्छनः मृगाङ्कश्चन्द्र इति यावत् । अपाहितशरीरः
गोपायितदेहः । भावानुबन्धम् अनुरागातिशयम् । उत्साम्यति उत्कण्ठते । तीव्र इति ।
तीव्रः अतिशयः । स्मरसन्तापः कामदाहः । आदौ प्रथमदर्शनसमये । बाधते पीडां
ददाति । आसन्ने समीपवर्त्ति-प्रियसमागमे इत्यर्थः । प्रावृषि वर्षासु अभ्यर्णजलागमः
अभ्यर्णः आसन्नः जलागमः यस्मिन् सः दिवसः यथा नितरां सातिशयं तपति तापं ददाति ।
आर्यावृत्तम् । दृष्टान्तालङ्कारः, उपमानोपमेयस्य बिम्बानुबिम्बत्वात् ॥१०॥
उत्कण्ठानिर्भरं उत्कण्ठया निर्भरा सातिशया यस्मिन् तत् राजदन्तादित्वात् परनिपातः ।
मन्यते कथयति । शिरःसंज्ञा मस्तकचालनेन सङ्केतम् इत्यर्थः । शीतांशुरिति । शीतांशः