रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 165, कुल 520 में से
संदर्भ में पढ़ें120 रत्नावली
सुसङ्गता—(सागरिकाया हृदये हस्तं दत्वा) सहि ! समस्सस समस्सस ।
जाव इमाए दिग्घिआए णलिणीपत्ताइँ मुणालिआइं अ
गेण्हिअ लहुं आअच्छामि । (निष्क्रम्य पुनः प्रविश्य च नाटयेन नलिनी-
पत्रैः शयनीयं मृणालवलयानि च रचयित्वा परिशिष्टानि नलिनीपत्राणि सागरिकाया हृदये
निक्षिपति ) (क)
सागरिका—सहि ! अवणेहि इमाइं णलिणीपत्ताइँ मुणालि-
आइं अ । अलं इमिणा । कीस अकारणे अत्ताणं आयासेसि ? (ख)
दुल्हहजणअणुराओ लज्जा गरुई परव्वसो अप्पा ।
पियसहि ! बिसमं पेम्मं मरणं सरणं तु वरमेक्कं १ ॥१॥ (ग)
( इति मूर्च्छति )
(क) सखि, समाश्वसिहि समाश्वसिहि । यावद अस्याः दीर्घिकायाः नलिनीपत्राणि
मृणालिकानि च गृहीत्वा लघु आगच्छामि ।
(ख) सखि, अपनय इमानि नलिनीपत्राणि मृणालिकानि च । अलमेतेन । कथम्
अकारणे आत्मानं आयासयसि ?
(ग) दुर्लभजनानुरागो लज्जा गुर्वी परवश आत्मा ।
प्रियसखि विषमं प्रेम मरणं शरणं तु वरमेकम् ॥
ज्ञातास्मि राज्ञः कृते मदनपीडितेदमिति सुसङ्गतया ज्ञातास्मीत्यर्थः । गृहीताक्षरा भाषणस्य
अक्षराणि गृहीत्वा इत्यर्थः । मन्त्रयिष्यते कथयिष्यति । आयासयसि खेदं प्रापयसि ।
दुर्लभेति । दुर्लभः यः जनः उदयन इत्यर्थः । तस्मिन् अनुरागः आसक्तिः । लज्जा गुर्वी
महती । एतस्मात् साक्षाद् भाषणं न भविष्यति, लेखप्रेषणादिना यदेव सम्भवति तदेव
भविष्यतीत्यर्थः । आत्मा परस्य वासवदत्तायाः वशः पराधीनः यौगन्धरायणेन वासवदत्ता-
हस्ते समर्पितत्वात् । अतः पराधीनः जनः स्वेच्छया किमपि कर्तुं न शक्नोति इति
भावः । प्रेम अनुरागः विषमम् विपरीतम् । अतएवास्यामवस्थायां किं करणीयमिति
आह । मरणम् एकं तु वरं श्रेष्ठं शरणम् आश्रयः । मरणेनैव सर्व्वथा मे शुभं भविष्य-
1 णवरमेक्कं ।