रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 142, कुल 520 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः 97
कोकिलालाप—songs of the cuckoo. सुखावह—pleasant. मत्ताः मधुकराः
( कर्मधा ) तैः मुक्तः ( ३यातत् ) तादृशः झङ्कारः ( कर्मधा ) तेन मिलितः ( ३यातत् )
तादृशः कोकिलालापः ( कर्मधा ) सः एव सङ्गीतम् ( कर्मधा ) तेन सुखावहम् ( ३या-
तत् ) । आवहतीति आ - वह् + अच् पचादित्वात् आवहः meaning प्रापक । सुखस्य
आवहः ( ६ठीतत् ) ।
तवागमन etc.—showing respect at your arrival. Adj. to
मकरन्दोद्यानम् । आगमने दर्शितः ( सुप्सुपा ) तादृशः आदरः येन ( बहु ) तत् ।
Shloka 17. This shloka admits of double meaning as the
trees are compared with drunken persons.
उद्यद् etc.—having the lustre of an up-shooting coral. उद्यन्
विद्रुमः ( कर्मधा ) तस्य कान्तिः इव कान्तिः यस्य ( बहु ) तैः । विद्रुम means ‘coral’
‘विद्रुमो रत्नदण्डेऽपि प्रवालेऽपि पुमानयम्’—मेदिनी । Adj. to किसलयैः ।
ताम्रां त्विषम्—reddish hue ; त्विष् means कान्ति । N. B. Persons
hard drunk assume a reddish hue in their face.
कलैः भृङ्गालीविरुतैः—By sweet humming of swarms of bees.
आली means समूह. कल means sweet. “ध्वनौ तु मधुरास्फुटे कलः” । भृङ्गणाम्
आली ( ६ठीतत् ) तस्याः विरुतानि ( ६ठीतत् ) । वि - रु + क्त = विरुत humming
sound. तृतीया च उपलक्षणे ।
अविशदव्याहार etc.—Adj. to द्रुमाः । Displaying the fun of in-
articulate speech. न विशदः ( clear ) ( नञ्तत् ) । अविशदः व्याहारः
( उक्तिः ) ( कर्मधा ) तस्य लीला ( ६ठीतत् ) तां बिभ्रति ये ते ( उपपदतत् ) । वि
- आ + हृ + घञ् = व्याहारः, speech. “व्याहार उक्तिर्लपितम्”—अमरः । अविशद-
व्याहारलीला - भृ + क्विप् । The expression yields the meanings
thus—(1) the trees with the humming bees are, as it were,
speaking indistinctly, (2) as persons under intoxication
speak unintelligibly.
7