रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 105, कुल 520 में से
संदर्भ में पढ़ें60 रत्नावली
सागरिका—कहं पत्थिदा देवी । भोदु । तुरिअं गमिस्सं । (राजानं
सस्पृहं दृष्ट्वा निःश्वस्य) कथं मन्दभाइणीए मए पेक्खिदुं वि चिरं ण
पारिदो अअं जणो । (क) (इति निष्क्रान्ता)
राजा—(परिक्रामन्)
देवि त्वन्मुखपङ्कजेन शशिनः शोभातिरस्कारिणा
पश्यान्यानि विनिर्जितानि सहसा गच्छन्ति विच्छायताम् ।
श्रुत्वा ते परिवारवारवनितागीतानि भृङ्गाङ्गना
लीयन्ते मुकुलान्तरेषु शनकैः सञ्जातलब्जा इव ॥२५॥
(इति निष्क्रान्ताः सर्वे)
इति मदनमहोत्सवो नाम प्रथमोऽङ्कः
(क) कथं प्रस्थिता देवी ! भवतु, त्वरितं गमिष्यामि । कथं मन्दभागिन्या मया
प्रेक्षितुमपि चिरं न पारितः अयं जनः ।
वैतालिकः मागधः । विविधाश्चासौ तालः, तेन चरतीति वैतालिकः स्तुतिकीर्त्तनविद् ।
अस्तापास्तेति । अस्ते अस्ताचले अपास्ताः निक्षिप्ताः समस्ताः भासः किरणा येन तस्मिन् रवौ
नभसः पारं प्रयाते अस्तङ्गते इत्यर्थः । सायन्तने समये सायं काले दृशां लोकनयनानां
प्रीत्युत्कर्षं कृतः आनन्दातिशयं विदधतः सुधामयूखत्वात्, (राजपक्षे) रञ्जनशीलत्वात्
रमणीयाकृतित्वाच्च इत्यर्थः । इन्दोः चन्द्रस्य इव तव सरोरुहद्युतिमुषः कमलशोभापहारिणः,
चन्द्रोदये कमलानां निमीलनेन शोभापगमात् । पादान् (चन्द्रपक्षे) मयूखान् (राजपक्षे)
चरणौ बहुवचनं त्वत्यादरात् इत्यर्थः । सेवितुं एषः नृपजनः प्रस्तावनायां पादपद्मोपजीवी
राजसमूह इति यदुक्तं तस्यैव समर्थनम् । सम्प्रति आस्थानीं राजसभां समं युगपत् सम्पतन्
उदीक्षते औत्सुक्येन अपेक्षते । ऊर्ध्वं प्रेक्षते च । शार्दूलविक्रीडितं वृत्तम् । श्लेषाणु-
प्राणितैयमुपमा । पादान् इत्यत्र श्लेषः ॥२३॥
तत्परेति । परस्य प्रेष्यं प्रेरणां परादेशकारित्वमिति यावत् वासवदत्तायाः आज्ञा-
कारित्वमिहस्य कथयतीति भावः । तेन परप्रेष्येण कथितं क्लिष्टमपि जीवितं एतस्य