सामग्री पर जाएँ
सर्वकोश
रसेन्द्रसारसंग्रह (गोपालकृष्ण - पं. रामप्रसाद वैद्य सविस्तार सान्वय हिन्दी टीका सहित)

रसेन्द्रसारसंग्रह (गोपालकृष्ण - पं. रामप्रसाद वैद्य सविस्तार सान्वय हिन्दी टीका सहित)

Rasendra Sara Sangraha of Gopalakrishna with Commentary

गोपालकृष्ण भट्ट (टीकाकार: पं. रामप्रसाद वैद्य) द्वारा

DevanagariHindipublished584 पृष्ठ

पृष्ठ 553, कुल 584 में से

संदर्भ में पढ़ें
पृष्ठ 553

अथ तृतीय खण्ड ।
अथ रसायनवाजीकरणाधिकार ।
रसायनके लक्षण ।
सुस्थस्यौजस्करं किञ्चित्किञ्चिदार्तस्य रोगनुत् ।
यज्जराव्याधिविध्वंसि भेषजं तद्रसायनम् ॥ १ ॥
जिस औषधिके सेवन करनेसे स्वस्थ मनुष्यके ओजकी वृद्धि होती
है और रोगी मनुष्यके रोगोंकी निवृत्ति होती है तथा जो जरा और
व्याधियोंको दूर करती है उस औषधिको रसायन कहते हैं ॥ १ ॥
श्रीमन्मथ रस ।
रसगन्धकयोर्ग्राह्य कर्षमेकं सुशोधितम् ।
अभ्रं निश्चन्द्रकं दद्यात्पलार्द्धं सुविचक्षणः ॥ २ ॥
कर्पूरं शाणकं दद्याद्वङ्गञ्च कोलसम्मितम् ।
ताम्रं कोलार्द्धकं तत्र निःशेषमारितं क्षिपेत् ॥ ३ ॥
लौहं कर्षं सुजीर्णञ्च वृद्धदारकबीजकम् ।
विदारी शतमूली च क्षुरबीजं बला तथा ॥ ४ ॥
मर्कट्यतिबला चैव जातीकोषफले तथा ।
लवङ्गं विजयाबीजं श्वेतसर्जं यमानिका ॥ ५ ॥
एतेषां चूर्णमादाय प्रक्षिपेच्छाणसम्मितम् ।
गुञ्जाद्वयञ्च भोक्तव्यं कोष्णं क्षीरं पिबेदनु ॥ ६ ॥
गृहे यस्य शतं स्त्रीणां विद्यतेऽतिव्यवायिनः ।
न तस्य लिंगशैथिल्यमौषधस्यास्य सेवनात् ॥ ७ ॥
न च शुक्रं क्षयं याति न बलं ह्रासतां व्रजेत् ।
कामरूपी भवेद्दिव्यो वृद्धः षोडशवर्षवत् ॥ ८ ॥
रसायनवरो बल्यो वाजीकरण उत्तमः।
रसः श्रीमन्मथो नाम महेशेन प्रकाशितः ॥ ९ ॥