रसेन्द्रसारसंग्रह (गोपालकृष्ण - पं. रामप्रसाद वैद्य सविस्तार सान्वय हिन्दी टीका सहित)
Rasendra Sara Sangraha of Gopalakrishna with Commentary
गोपालकृष्ण भट्ट (टीकाकार: पं. रामप्रसाद वैद्य) द्वारा
पृष्ठ 521, कुल 584 में से
संदर्भ में पढ़ेंभाषाटीकासहित । ( ४९५ )
मण्डूकपर्णीवशिरतालमूलीरसैः पुनः ।
वरीभृङ्गकेशराजकालमारिषजैरथ ॥ २०॥
त्रिफलाभद्रमुस्ताभिः स्थालीपाकाद्विचूर्णितम् ।
रसगन्धकयोः कर्षं प्रत्येकं ग्राह्यमेकतः ॥ २१ ॥
तन्मसृणशिलाखण्डे यत्नतः कज्जलीकृतम् ।
वचा चव्यं यमानी च जीरके शतपुष्पिका ॥ २२ ॥
व्योषं मुस्तं विडङ्गञ्च ग्रन्थिकं खरमञ्जरी ।
त्रिवृता चित्रको दन्ती सूर्यावर्त्तः सितस्तथा ॥ २३॥
भृङ्गमाणककन्दाश्च खण्डकर्णक एव च ।
दण्डोत्पला केशराजकालावकरकोऽपि च ॥ २४ ॥
एषामर्द्धपलं ग्राह्यं पटघृष्टं सुचूर्णितम् ।
प्रत्येकं त्रिफलायाश्च पलार्द्धं पलमेव च ॥ २५ ॥
एतत्सर्वं समालोड्य लोहपात्रे तु भावयेत् ।
आतपे दण्डसंघृष्टमार्द्रकस्य रसैस्त्रिधा ॥ २६ ॥
तद्रसेन शिलापिष्टं गुटिकां कारयेद्भिषक् ।
बदरास्थिनिभां शुष्कां स्वनुगुप्तां निधापयेत्॥२७॥
[