सामग्री पर जाएँ
सर्वकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 9, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 9

( ५ )
साधु पृष्टं त्वया देवि ! भक्तानां हितकाम्यया ॥
अजरामरदेहस्य शिवतादात्म्यवेदनम् ।
जीवन्मुक्तिर्महादेवि देवानामपि दुर्लभा ॥
पिण्डपाते च यो मोक्षः स च मोक्षो निरर्थकः ।
पिण्डे तु पतिते देवि ! गर्दभोऽपि विमुच्यते ॥
षड्दर्शनेऽपि मुक्तिस्तु दर्शिता पिण्डपातने ।
करामलकवत्सापि प्रत्यक्षं नोपलभ्यते ॥
देवानामपि देवेशि ! दुर्लभं पिण्डधारणम् ।
किं पुनर्मानुषाणां तु धरणीतलवासिनाम् ॥
तेन पिण्डो महादेवि रक्षणीयः प्रयत्नतः ।
यावन्न हरबीजं तु भक्षयेत्पारदं रसम् ।
तावत्तस्य कुतो मुक्तिः कुतः पिण्डस्य धारणम् ॥
( रसार्णवप्रथमपटलः )
श्रीमद्भगवद्गोविन्दपादाश्चैवमाममन्ति—
इति धनशरीरभोगान् मत्वाऽनित्याः सदैव यतनीयम् ।
मुक्त्यै सा च ज्ञानात् तच्चाभ्यासात् स च स्थिरे देहे ॥
स्थिरदेहोऽभ्यासवशात् प्राप्य ज्ञानं गुणाष्टकोपेतम् ।
प्राप्नोति ब्रह्मपदं न पुनर्मचवासदुःखानि ॥
नहि देहेन कथंचिद् व्याधिजरामरणदुःखविधुरेण क्षणभंगुरेण सूक्ष्मं तद्
ब्रह्मोपासितुं शक्यम् ॥
अस्मिन्नेव शरीरे येषां परमात्मनो न संवेदः देहत्यागादूर्ध्वं तेषां तद् ब्रह्म
दूरतरम् । तस्माज्जीवन्मुक्तिं समीहमानेन योगिना प्रथमं दिव्या तनुर्विधेया हरगौ-
रीसृष्टिसंयोगात् । ( रस० हृ० त० प्र० प्र० )
अस्याश्च रसचिकित्सायास्तन्त्रकाराः—श्रीशङ्कर-नन्दीश्वर-भैरवब्रह्मविष्णु-दत्ता-
त्रेयप्रभृतयो देवाः अगस्त्य-कपिल-मालुकि-व्याडिमत्तमायडव्यादयो महर्षयः,
चन्द्रसेन-लङ्केश-विशारद-भास्कर-सुरसेन-रत्नकोश-स्वच्छन्दभैरव-मन्थानभैरव-
काकचण्डीश्वर-नरवाहन-कपालिक-रसेन्द्रतिलक-सुरानन्द-यशोधन-गोमुख-नरेन्द्र-
मैथिल-स्कन्द-भगवद्गोविन्द पाद-प्रभृतयः प्राचीना रससिद्धाः नागार्जुन-भैरवनाथ-