सामग्री पर जाएँ
सर्वकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 13, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 13

प्राक् पठनीयम्
सन्तः ! प्राणाचार्याः ! प्राणकामाश्च ! भारतीये रसायनशास्त्रे नवीनं
पदमादधाना रसतरङ्गिणीयं सद्धिषजां प्रथमदर्शनात एव परं प्रमोद-
मातन्वानाऽतिशयसाधारणरसगुणविचारणकारणादपरमानन्दाधिकार-
मतानीत् ।
तस्याः प्रथमादिसंस्करणमुदारचरितैर्गुणगृहैर्भिषग्वरैस्तत्र तत्र वि-
शिष्टायुर्वेदविद्यालयेषु पाठ्यत्वेनाङ्गीकृतमपरैश्च जिज्ञासुभिरहमहमिक-
यैवात्मसात्कृतमिति भूयोऽपि भूयसीमावश्यकतामपरसंस्करणस्यानुबभूम् ।
अत्र च तत्र तत्र बहुत्र कठिनदुरुहस्थलेषु निगूढरहस्यप्रसादिनीविषम-
स्थलव्याख्या निवेशितेति जिज्ञासुच्छात्राणां परं प्रमोदस्थानम् । किञ्च
मूलेऽप्यत्र बहुत्र पूर्वसंस्करणोपेक्षयोपयोगि योगाधिक्यमस्ति मननीयम् ।
विशेषतो यथा 'तलसिन्दूरम्' 'शुक्रशोधिगन्धयोगः' 'मल्लमरणविधिः'
'स्वर्णमारणप्रकारे पञ्चमे वैशिष्ट्यम्' 'कासीसमारणप्रकारः' इत्यादि ।
प्रसादन्यान्तु बहुत्र रहस्योद्घाटनम्, पारदावशिष्टदशसंस्कारसंक्षिप्त-
समुल्लेखः, अन्तर्धूमवालुकायन्त्रप्रकारः, गन्धकयोर्गाविशेषाः, मल्लभस्म-
योगः—इत्यादयोऽनेके सूक्ष्मेक्षिकासमीक्षणीयाश्चापरे विशेषाः भावुक-
मनोमोदावहाः सन्त्येव ।
अत्र च अतीव महत्त्वपूर्णः चपलनिर्णयोऽपि यथास्थानं निवेदित
इत्यवधेयम् ।
अपि च एतावता कृतेऽपि प्रयत्ने भ्रमप्रमादादिस्वाभाविकास्मदीय-
दोषहेतोर्जायमानं स्खलनं चेत् शोधनीयं सुधीरैः ।
इति निवेदयति—
भिषजामनुग्राह्यो
हरिदत्तः शास्त्री
आयुर्वेदाचार्यः ।