रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 57, कुल 558 में से
संदर्भ में पढ़ेंद्वितीयः पटलः । ३३
न देयं दुष्टबुद्धीनां गोष्ठीरूपेण याचके ॥ १२६ ॥¹
अष्टम्यां पौर्णमास्यां च² अमावास्यां³ युगादिषु ।
अयने विषुवे⁴ चेव चतुर्दश्यां विशेषतः ।
रसोत्सवं प्रकुर्वीत यथावित्तानुसारतः ॥ १२७ ॥⁵
एवं रसोत्सवं देवि यः कुर्याद्भक्तिसंयुतः ।
ब्रह्महत्यादिपापानि नश्यन्ति विविधानि च ॥ १२८ ॥
अनेन विधिना यत्र पूजां कुर्व्वन्ति साधकाः⁶ ।
न तत्र रोगदौर्गत्यं नेतयः⁷ प्रभवन्ति च ॥ १२९ ॥
एवंविधां⁸ रसे पूजां प्रतिष्ठाप्य यथाविधि ।
पश्चात्कर्म विधातव्यमात्मनः शुभमिच्छता⁹ ॥ १३० ॥
अन्यथा¹⁰ कुरुते यस्तु तस्य सिद्धिर्न जायते ।
अपायः¹¹ पापशंका च बुद्धिभङ्गो हि जायते ॥ १३१ ॥
(1) K reads गोष्ठीभूय न याचयेत्. This hemistich is wanting in M.
(2) K reads पूर्णमायां च, which seems to be an error of the scribe. M
reads पूर्णिमायां वा. (3) अमावश्यां वा युगादिषु, a variant in K, which
destroys the metre. (4) M reads विषुवै, which is incorrect.
(5) After this śloka, there is a hemistich in M, which runs thus :—
नश्यन्ति पापसङ्घानि महासिद्धिः प्रजायते ॥ Also the following two ślokas (128
and 129) are not found in M. (6) K has यस्तु पूर्व्वं कुर्वीत साधकः,
wherein पूर्व्वं is incorrect. (7) K reads रोगा जायन्ते न पुनः. (8) K
reads एवंविधे. (9) सिद्धिमिच्छता, a variant in M. (10) M
reads अयथा. (11) The portion beginning from अपायः and ending
in प्रिये (ślokas 131-- 132) is wanting in M.
5