सामग्री पर जाएँ
सर्वकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 460, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 460

एतद्ग्रन्थसङ्कलनम् ।
काश्मीराद्दक्षिणावर्त्तात् विकानीराच्च देशतः ।
मान्द्राजाञ्चैव नगरात् बहुवित्तोपघाततः ॥
प्रफुल्लचन्द्ररायेण रसायनविपश्चिता ।
श्रीमता धीमताहृत्य तन्त्राणि बहुयत्नतः ॥
तेषान्तु बहुदोषाणामशुद्धानाञ्च वर्णतः ।
पाठापाठविवेकाय विशुद्धीकरणाय च ॥
नियुक्तः श्रीहरिश्चन्द्रः कविरत्नाभिधो द्विजः ।
रसार्णवमिमं ग्रन्थं कलयामास यत्नतः ॥
कलिकातापुरे चन्द्रनेत्रवह्नीन्दुसम्मिते ।
शाके ग्रन्थः समाप्तोऽयं तपोमासीन्दुजे दिने ॥