सामग्री पर जाएँ
सर्वकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 453, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 453

४२० रसार्णवे
न सिद्ध्येद्रसशास्त्रे तु¹ न सिद्ध्येत्तादृशो गुरुः² ॥ १८१ ॥
न प्रापेत्तादृशींमाज्ञां³ नैव ज्ञानं च तादृशम्⁴ ।
न प्रापेत्तादृशीं नारीमेकचित्तां वराङ्गने ॥ १८२ ॥
न प्रापेद्रसवन्तं च तां च देवीं रसाङ्कुशोम्⁵ ।
यस्य तुष्टः शिवः साक्षात्तस्य सिद्धौ⁶ रसायने ॥ १८३ ॥
पुनरन्यत्⁷ प्रवक्ष्यामि गोलबन्धनमुत्तमम् ।
येन भक्षितमात्रेण⁸ जायते ह्यजरामरः ॥ १८४ ॥
गन्धाभ्रकान्तसहितं भानुखर्परकाञ्चनम् ।
समं तीक्ष्णं⁹ रवेन्द्रस्य बद्धं कृत्वा तु गोलकम् ॥ १८५ ॥
रसेन्द्रं पञ्चपलिकं¹⁰ समभागेन मेलयेत् ।
सप्तजम्बीरतोयेन¹¹ मर्दयेद्गोलकस्य च¹² ॥ १८६ ॥
छायाविशुष्कं गोलं तु शशिभावं करोति तत् ।
(1) न सिद्ध्येत्तादृशे शास्त्रे, a variant in D. (2) न सिद्ध्येत्तादृशो गुरुः,
a variant in D. न सिद्ध्येता वराङ्गने, an incorrect variant in K. (3)
D reads तादृशीं विद्यां. (4) ज्ञानं स्नानं द्रव्याण तादृशं, an incorrect variant
in D. This hemistich and the next one are not found in K. (5)
B reads रसांङ्कुशां. (6) K reads erroneously सिद्धि. (7) B, D and
K read पुनरन्यं, which is grammatically incorrect. (8) येन च भक्ष-
मात्रेण, a variant in D. येन भक्षणमात्रेण, a variant in K. (9) D
reads समं जीर्णे. K reads नमो जीर्णे. Both are partly incorrect. (10).
रसेन्द्रं पञ्चमैकखं, an incorrect variant in D. (11) B reads सप्तमं यथा-
कल. K reads सप्तबीजं रसो येन. (12) यथा तद्गोलकस्य वा, a variant
in B. गोलकस्य यथाकथा, an incorrect variant in K.