सामग्री पर जाएँ
सर्वकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 442, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 442

अष्टादशः पटलः । ४१२
कुसुम्भञ्च कर्कोटं¹ कदलीं काकमाचिकाम्² ।
ककाराष्टकमेतद्धि वर्ज्जयेद्रसभक्षकः³ ॥ १२० ॥
पातकं च न कर्त्तव्यं पशुसङ्गं विवर्ज्जयेत्⁴ ।
लिङ्गच्छायां⁵ न लङ्घेत नारीच्छायां तथैव च⁶ ॥ १२१ ॥
चतुःपथे न गन्तव्यं⁷ विण्मूत्रं न च लङ्घयेत् ।
सुराणां निन्दनं देवि⁸ स्त्रीणां निन्दां च वर्ज्जयेत्⁹ ॥१२२॥
सत्यं च वचनं ब्रूयादप्रियं न वदेद्बुधः¹⁰ ॥ १२३ ॥
कुलत्थमतसीतैलं तिलान् माषान् मसूरिकाम्¹¹ ।
कपोतकं काञ्जिकात्रं तक्रभक्तं च वर्ज्जयेत् ॥ १२४ ॥
वाङ्कतोक्त¹²लवणं पिच्छिलं¹³ पित्तलं च यत् ।
तिलतैलं दधि क्षीरं¹⁴ द्राक्षाकोलपरूषकम्¹⁵ ॥ १२५ ॥
बदरं करविल्वञ्च¹⁶ सहकारं सुवर्चलम् ।


(1) कुसुभं काचकंर्कोटं, a variant in D. K reads कुभोकर्कोंटी, which
is incomplete. (2) B reads काचमारीका, which seems to be
incorrect. (3) B reads मलभक्षकः. (4) पशुसंगं च वर्जयेत्,
a variant in K. (5) K reads निंबच्छायां. (6) B reads न लङ्घयेत्.
(7) B reads न कर्त्तव्यं. (8) दैवतानां न निर्वेदं, a variant in D. वीराञ्च
निंदयेद्देवि, a variant in K. (9) D reads स्त्रोनियां, which is incor-
rect. K reads स्त्रोनिंदां चैव वर्जयेत्,. (10) दप्रियो न वदेद्बुधः, a variant
in B, which is partly incorrect. (11) B reads मसूरिकां. D reads
मसूरिकाः. Both seem to be incorrect. (12) B reads विल्ल. (13)
D and K read पिच्छलं. (14) तिलतैले दधिक्षारे, a variant in B.
(15) द्राक्षाख्यो पनसं ततः, a variant in D and K. (16) B reads
नारिकेलञ्च.