रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 423, कुल 558 में से
संदर्भ में पढ़ेंअष्टादशः पटलः ।
—❖—
श्रीदेव्युवाच ।
लोहवेधाख्यया देव यदर्थमुपवर्णिताः¹ ।
तं देहवेधमाचक्ष्व येन स्यात् खेचरी गतिः² ॥ १ ॥
श्रीभैरव उवाच ।
प्रथमं शोधयेद्देहं पश्चात् कल्पं समाचरेत् ।
अन्यथा न³ भवेत् सिद्धिः रसे चैव रसायने ॥ २ ॥
प्रातः प्रातः पिबेदादौ त्रिदिनं घृतसैन्धवम्⁴ ।
केतक्याः स्तनजं⁵ क्वाथं तदनु⁶ त्रिदिनं पिबेत् ॥ ३ ॥
विधिना स्वेदनं कृत्वा सयवक्षारमर्करम्⁷ ।
त्र्यहं पिबेद्वराक्वाथं⁸ सदेवासुरवन्दिते⁹ ॥ ४ ॥
क्वाथं¹⁰ कटुकरोहिण्याः सम्यग् जाते विरेचने¹¹ ।
त्रिदिनं यावकान्नं च¹² भुञ्जीत घृतसंयुतम् ॥ ५ ॥
(1) लोहवैधाख्यया देवि यदर्थमुपवंदितः, an incorrect variant in D. (2)
D reads खेचरा गतिः, which is incorrect. (3) D and K read नान्यथा
तु. (4) D reads घृतसैन्धवः, which is incorrect. (5) B has
केतकिसनशे. D has केतच्यास्तनजं. K has केतकास्तनजं. (6) B reads
तदातु. D reads तदैते. (7) D reads प्रर्कराम्, which is incorrect.
(8) D has पिबेदक्तिकं, which is incorrect. K has वरक्वाथं. (9) सर्व-
बासुरवंदिते, a variant in B. ससदेवाशुरवन्दिते, a variant in D. (10)
K reads क्वाथ. (11) B reads विरेचनं. (12) B has दिनं यावकान्नं तु.