रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 421, कुल 558 में से
संदर्भ में पढ़ें३८८ रसार्णवे
मर्दयेन्मृन्मये पात्रे पलपञ्चक¹पन्नगम् ।
वापयेत् सिद्धसूतेन² शलाकां चैव चालयेत्³ ॥ १६० ॥
पुनश्च वापयेत्तावत्⁴ यावत् कठिनतां व्रजेत्⁵ ।
तन्नागं जायते दिव्यं जाम्बूनदसमप्रभम्⁶ ॥ १६१ ॥
उद्घाटं⁷ कथयिष्यामि रसविद्धं च पन्नगम्⁸ ॥ १६२ ॥
घोषाकृष्टं तु यत् शुल्कं⁹ षोडशांशेन¹⁰ योजयेत् ।
एकीकृत्य¹¹ समावर्त्त्य छागमूत्रे निषेचयेत् ।
सर्व्वदोषविनिर्मुक्तं जायते हेम शोभनम्¹² ॥ १६३ ॥
लोहवेध इति ख्यातो विस्तरेण सुरेश्वरि ॥ १६४ ॥
यथा लोहे तथा देहे कर्त्तव्यः सूतकः सदा ।
समानं कुरुते देवि प्रविशन्¹³ देहलोहयोः ॥ १६५ ॥
(1) D reads पलं पंचक. K reads पलं पंचक. (2) दापयेदश्वमूत्रेण,
a variant in D. K reads वद्धसूतेन. (3) D reads शालाकीं चलापयेत्,
which is incorrect. (4) B reads पञ्चात्. D reads पञ्चाद्दापयेद्धरिद्रा,
an incomplete variant in D. (5) K has the following hemistich
after व्रजेत् :—संवापयेद्धरिद्रां तु यावत् कठिनतां व्रजेत्. (6) D reads जम्बूनद-
समन्वितम्, which is not correct. (7) उद्धारं is the readings in D.
(8) D has रससिद्धिं च पावनम्. K has रसबंधं च पन्नगं. (9) D reads
खल्कं तु, which is incorrect. (10) K reads erroneously षोडशांश.
(11) D and K read एकीकृत्या, which is grammatically incorrect.
(12) D has मम शोभनम्, which is incorrect. (13) D reads प्रलयात्.
K reads प्रस्रवं.