सामग्री पर जाएँ
सर्वकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 412, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 412

सप्तदशः पटलः । ३८९
पादमेतत्सुरासेकै¹र्जायते नखपाण्डुरम् ॥ १०० ॥
त्रयोऽयस्कान्तभागाः² स्युरारतारद्वयं तथा ।
वङ्गस्य³ दश भागाः स्युस्तारवेधेन⁴ वेधयेत् ॥ १०१ ॥
आरस्य द्विगुणं तारं तारात् कान्तं चतुर्गुणम् ।
कान्तादष्टगुणं⁵ वङ्गं तारवेधेन वेधयेत्⁶ ॥ १०२ ॥
तालं सूतं समं कृत्वा वज्रीक्षीरेण मर्दितम् ।
पुटं दत्त्वा तु यन्त्रेण सत्त्वं पतति शोभनम् ॥ १०३ ॥
वङ्गमावर्त्य देवेशि वज्रीक्षीरेण⁷ पेषयेत् ।
एकविंशतिवाराणि वङ्गशोधनमुत्तमम् ॥ १०४ ॥
तद्वङ्गं जारयेत् सूतं समं वा⁹ द्विगुणादिकम् ॥ १०५ ॥
भल्लातराजिकातैल¹⁰-शङ्खचूर्णविडेन च¹¹ ।
नागवङ्गे भवेत्तेन समं वङ्गेन सारणात्¹² ॥ १०६ ॥