सामग्री पर जाएँ
सर्वकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 408, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 408

सप्तदशः पटलः । ३८५
शाकपंच¹रसेनैव सप्तवारं निषेचयेत् ।
पञ्चविंशतिकृत्वो वा² तैले भूनागसम्भवे ।
तन्नागं³ जायते दिव्यं देवाभरणभूषणम् ॥ ७८ ॥
अथवा भूलताचूर्णं⁴ नागचूर्णं समांशकम् ।
अन्धमूषागतं ध्मातं तैले तप्तं⁵ निषेचयेत् ॥ ७९ ॥
एवं कृते सप्तवारं भवेत् षोडशवर्णकम् ॥ ८० ॥
बालवत्स⁶पुरीषं च लाक्षागैरिकचन्दनम् ।
हंसपादाख्यदरदं⁷ विल्वमज्जा गुड़स्तथा ॥ ८१ ॥
राजावर्त्तं च कङ्कुष्ठं शाक⁸पल्लववारिणा ।
भुजङ्गं कनकं कुर्याच्छतवारं निषेचनात्⁹ ॥ ८२ ॥
मञ्जिष्ठा रजनीद्वन्द्वं कांची कनकमाक्षिकम्¹⁰ ।
कौसुम्भं विषसिन्धूत्थं¹¹ दरदं रक्तचन्दनम् ॥ ८३ ॥
शाकपल्लवपालाश-कुसुमैः सह संयुतम् ।
सेचनाच्छतवारेण¹² नागं रञ्जयति प्रिये ॥ ८४ ॥


(1) D and K read अशोकपच. (2) K reads वै. (3) B
and K have तं नागं, which is grammatically incorrect. (4) B reads
भूलताचूर्णों, which is incorrect. (5) B reads तैसतप्तं. D reads तैले
तदा. K reads अंधंधूषागतं चैले तप्तं तप्तं. (6) D reads erroneously
बालबैष. (7) हंसपादाञ्चदरदं, a variant in D. (8) B reads
झोक, which seems to be incorrect. (9) D has शतवाराणि प्रेषयेत्.
K has शतवाराणि सेचयेत्. Both the readings are incorrect. (10) काञ्चि-
कनकमाक्षिकम्, a variant in D. K has only काञ्चिजं. (11) B has
विषुत्य, which is incorrect. (12) This charaṇa is wanting in K.
49