रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 398, कुल 558 में से
संदर्भ में पढ़ेंसप्तदशः पटलः । ३७५
गण्डोल^1विषभेकास्थि-महिषाक्षिमलं तथा^2 ।
रुधिरेण समायुक्तं रससंक्रामणं परम् ॥ ११ ॥
विषं सुरेन्द्रगोपश्च^3 रोचना गुग्गुलुस्तथा ।
स्त्रीस्तन्यं^4 चैव तैर्युक्तो लोहे तु क्रमते^5 रसः ॥ १२ ॥
श्रीखण्ड^6निम्बनिर्यास-स्त्रीस्तन्यविषटङ्कणैः ।
गोघृतेन समायुक्तो लोहे तु क्रमते रसः ॥ १३ ॥
अरिवर्गहतौ^7 वङ्ग-नागौ ही क्रामणं^8 परम् ॥ १४ ॥
माघव्राडः^9 कुलीरश्च शङ्खाभ्यन्तरजो मलः ।
तथा कपित्थनिर्यासो^10 रससंक्रमणं परम् ॥ १५ ॥
क्रामणं रसराजस्य वेधकाले प्रदापयेत् ।
क्रामणं यो न जानाति श्रमस्तस्य निरर्थकः ॥ १६ ॥
अतः परं प्रवक्ष्यामि हेमतारदलानि तु ॥ १७ ॥
नागं सूतं समं घृष्टं गन्धद्वादशसंयुतम्^11 ।
धत्तूरकरसे घृष्टा गुटिका^12 चणकाकृतिः ॥ १८ ॥
(1) D reads गण्डम्ले, which is incorrect. (2) महिषाक्षीमलं तथा,
a variant in B. महीशाक्षीमलं तथा, a variant in K. (3) B and K
read विषमुतैंद्रगोपाश्च. (4) K reads स्त्रीस्तव्ये, which is inaccurate. (5)
D reads क्रमणो. K reads क्रमतो. (6) B has स्त्रीबीज. D and K
have श्रीखंडं. (7) D reads अरिवर्गाहतौ, which seems to be incorrect.
(8) D has क्रमणं, which is incorrect. (9) D reads ग्रीमाभिवाहः,
which is incorrect. (10) B reads निर्यासं, which is incorrect. (11)
गन्धकै द्वादशायुतम्, a variant in D. (12) B has घृष्टगुटिका. K has
धत्तूरकरसैः.