सामग्री पर जाएँ
सर्वकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 39, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 39

द्वितीयः पटलः । १५
तस्य हि निर्मला बुद्धिर्निश्चिता रससाधने ।
तस्माद्गुरुश्च शिष्यश्च पूर्वोक्तः सिद्धिभाग्भवेत् ॥ २७ ॥
श्रीदेव्युवाच ।
ईदृशैर्लक्षणैः¹ नारीं कुतः प्राप्नोति साधकः ।
यत्र रूपं महादेव लक्षणं नात्र विद्यते ॥ २८ ॥
लक्षणं विद्यते यत्र भावना नात्र विद्यते ।
अथवा रूपहीनाया रूपं केन प्रवर्त्तते ॥ २९ ॥
लक्षणत्रितयं² कुत्र त्वया दृष्टं महेश्वर ।
तदेतज्जायते येन तमुपायं वद प्रभो³ ॥ ३० ॥
श्रीभैरव उवाच ।
शृणु देवि परं गुह्यं यत्सुरैरपि दुर्लभम् ।
पितुः सदाशिवाज्जातं⁴ जन्म यच्चण्डिकोदरे ॥ ३१ ॥
तासां बुद्धिर्भवेद्देवि निर्मला रससाधने ।
दापयेत्त्वरितामन्त्रं जपेत्तं⁵ दर्पवर्जिता⁶ ॥ ३२ ॥
लक्षमन्त्रं⁷ जपेद्या तु जायते सा सुलक्षणा ।
बद्ध्वा तु खेचरीं मुद्रां जपेत् फेट्कारभैरवीम् ॥ ३३ ॥

(1) ईदृशीं लक्षणां, a variant in K, which is gram. untenable. [Here
उपलक्षितां is to be understood.] (2) K reads लक्षण त्रितयं. (3) K
reads तदुपायं वद मे प्रभो, where the word मे can be left out in order to
keep up the metre. (4) The reading in K is gram. inc. : the text
runs thus :—पितुः सदाशिवाच्चाद्य सन्तायाश्चण्डिकोदरे. (5) [Here सा is to be
understood.] (6) तं जपेद्दर्पवर्जिता is the reading in B. (7) B reads
लक्षमात्र.