रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 367, कुल 558 में से
संदर्भ में पढ़ें३४४ रसार्णवे
शूलिनौरससूतञ्च¹ स्रोतोऽञ्जनसमन्वितम् ।
पूर्व्ववत् पिष्टिकाattr/योगात् खोटो भवति शोभनः ॥ १५७ ॥
स्रोतोऽञ्जनं सतगरं² पिष्टिमययुतं रसम्³ ।
धमयेद्वह्निकसञ्चित्तं⁴ सूतकः सर्व्वकर्म्मकृत् ॥ १५८ ॥
हेमाभ्रं चैव ताराम्रं⁵ शुल्बाम्रं चाम्रतीक्ष्णकम् ।
वङ्गाभ्रं चैव नागाभ्रं समसूतेन वेधयेत्⁶ ॥ १५९ ॥
यथालाभौषधीघृष्टं⁷ महारससमन्वितम् ।
हेम्ना तारेण शुल्बेन तीक्ष्णवङ्गोरगैस्तथा⁸ ॥ १६० ॥
एभिर्व्वस्तैः समैःसर्व्वा पिष्टिं कृत्वा समे समाम्⁹ ।
मारयेत् पूर्व्वविधिना गर्भयन्त्रे¹⁰ तुषाग्निना ॥ १६१ ॥
समांशं सूतकं दत्त्वा वारं वारं पुनः पुनः ।
(1) मृतगौरससूतं च, a variant in D. (2) स्रोतोऽञ्जनशतगुणं, a variant
in D. K reads सतगरं. (3) पिष्टिमययुतं रसः, a variant in D., which
seems to be incorrect. (4) B reads वह्निप्रसञ्चितं, which has no clear
sense. (5) The portion beginning from ताराम्रं and ending in चैव is
wanting in K. My has हेमाभ्रकं च ताराम्रं. (6) समसूतेन बंधयेत्, a
variant in B and My. D reads समं सूतेन वेधयेत्, K has समं सूतेन बंधयेत्.
(7) यथालाभौषधीधृष्टं, a variant in D. यदा लाभीषधीधृष्टं, a variant in My.
(8) तीक्ष्णवङ्गरसेन च, a variant in D, which seems to be incorrect.
(9) पौठीं कृत्वा समे समाः, a variant in B and My, which is partly
correct. D reads समः, which is incorrect. (10) B and D read
गर्भपचे. For the description of गर्भयन्त्र vide रस. स. Chap. ix, verses
28 - 31.