रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 364, कुल 558 में से
संदर्भ में पढ़ेंपञ्चदशः पटलः । ३४१
दिव्यौषधिपुटं पाक्यं¹ रसखोटस्य लक्षणम् ॥ १३८ ॥
एतत्ते कथितं गुह्यं विज्ञेयं² रसवादिभिः ।
मत्प्रसादेन देवेशि तस्य सिद्धिर्न³ संशयः ॥ १४० ॥
स्नुहीक्षीरं सकाञ्जीकं⁴ बीजानि⁵ कनकस्य च ।
कञ्चुकी लाङ्गली चेन्द्रवारुणी विषमुष्टिका ।
पलाश⁶मूलतोयं च मर्दयेत्तेन सूतकम् ॥ १४१ ॥
समे हेम्नि⁷ समं सूतं पिष्टिकां कारयेद्बुधः⁸ ।
महारसान् पिष्टिकार्थं⁹ मर्दयेदौषधोरसैः ॥ १४२ ॥
यामत्रयं मर्दयित्वा गोलकं कारयेद्बुधः ।
पिष्टिकां बन्धयित्वा तु गन्धतैले¹⁰ विपाचयेत् ॥ १४३ ॥
अन्धमूषागतं गोलं¹¹ छायाशुष्कं तु कारयेत् ।
[ ततो लघुपुटं दत्त्वा खदिराग्नौ तु धामयेत् ।
खोटस्तु जायते हेम्नि सह हेम्ना ह जारयेत् ॥ ]¹²
(1) B reads erroneously पाथ. (2) B reads विज्ञतं, which is
incorrect. (3) B reads तस्य सिद्धेन. (4) स्नुहीक्षीरस काञ्जिकं,
a variant in B. स्नुहिक्षीरस्य काञ्जीकं, a variant in My. (5) My reads
बीजकं. (6) K reads पालाश. (7) B and My have समहेम्नि.
(8) पिष्टिका काठैद्बुधः, an incorrect variant in D. My reads कारयेत्ततः.
(9) महारसान् पिष्टिकारार्थं, an incorrect variant in B. This hemistich
and the next one are not found in D. महारसं पिष्टिकार्थं, a variant
in My. (10) D has गन्धतैलं, which is inaccurate. (11) D
and K have चैव. (12) The śloka within brackets is found
only in B and My.