सामग्री पर जाएँ
सर्वकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 362, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 362

पञ्चदशः पटलः । ३३६
शतांशेन तु चन्द्रार्कं वेधयेत् सुरवन्दिते ॥ १२८ ॥
पुनस्तेनैव योगेन पिष्टीस्तम्भं तु¹ कारयेत् ।
सारयित्वा ततो हेम्ना वेधयेच्च सहस्रकम्² ॥ १२९ ॥
एवं लक्षाणि कोटिं च वेधयेत् क्रमयोगतः ।
सप्तसंकलिकादूर्ध्वं कृत्वा वक्त्रे³ तु गोलकम् ।
वर्षेणैकेन स भवेत्⁴ वलीपलितवर्जितः ॥ १३० ॥
चाण्डाली⁵ राक्षसी चैव कुण्डलोद्भवो⁶ रसः ।
बीजं सूतं च वैक्रान्तं मर्दयेत् प्रहरत्रयम्⁷ ॥ १३१ ॥
विशुद्धं गोलकं⁸ कृत्वा मूकमूषागतं⁹ पुटेत् ।
खोटस्तु जायते देवि सुस्नातः¹⁰ खदिराम्बुना ॥ १३२ ॥
चाण्डालीराक्षसीपुष्प-रस¹¹ मध्वाज्यटङ्कणैः ।
महारसाष्टमञ्चैक-मभ्रकं चापि¹² योजयेत् ॥ १३३ ॥
नागं वङ्गं समं¹³ सूतं हेम तारमथापि वा ।


(1) B and My read पिष्टिसम्भुन, which is gram. inc. (2) वेध-
येच्च सहस्रकं, a variant in B and My. (3) K wants वक्त्रे. My reads
वक्त्रं. (4) D reads सह भवेत्, which is incorrect. (5) B reads
चण्डालौ. (6) कुण्डलोलोद्भवो is the reading in D, which seems to be
incorrect. (7) D and My have पहरद्वयम्. (8) D reads
विशुद्धगोलक. (9) D and K read मूकमूष्वागत, which is incorrect.
(10) B reads स्नातः, which mars the metre. (11) चंडालीराक्षसी-
पुष्पीरस is the reading in B. राक्षसीपुष्पेरस is the reading in D. (12)
B reads मञ्चैकमभ्रकं चापि, wherein the first term is incorrect. (13)
K and My read नागवंगसम.