सामग्री पर जाएँ
सर्वकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 360, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 360

पञ्चदशः पटलः । ३३७
तत्खोटपलमेकं तु पलैकं सूतकस्य च ।
पलद्वयं कुलत्थस्य सर्व्वमेकत्र मर्दयेत्¹ ।
मारयेत् पातनावन्ते धमनात् खोटतां² भवेत् ॥ ११५ ॥
स्वच्छाभ्रकपलैकं तु³ रसकस्य पलं तथा⁴ ।
सूतकस्य पलैकं तु सर्व्वमेकीकृतं प्रिये ॥ ११६ ॥
उन्दूरकरसेनेव मर्दयेत् प्रहरद्वयम् ।
मर्दयेद्दिनमेकं तु⁵ टङ्कणेन समन्वितम् ॥ ११७ ॥
गुटिकां⁶ कारयेद्देवि छायाशुष्कां तु कारयेत् ।
मूषावह्निगतं ध्मातं खोटी भवति सूतकम्⁷ ॥ ११८ ॥
तं खोटं शोधयेच्छ्वेत⁸काचटङ्कणयोगतः ।
हेम्ना सह समावर्त्त्य⁹ सारत्वात्त्रयसारितम् ॥ ११९ ॥
सहस्रांशेन तेनैव मुख्यवेधं¹⁰ प्रदापयेत् ।
अनेन क्रमयोगेन कोटिवेधी भवेद्रसः ॥ १२० ॥
बीजद्वयं पलाशस्य पलमेकं तु सूतकम् ।
जम्बीराम्लेन संमर्द्य छायाशुष्कं तु कारयेत् ॥ १२१ ॥


(1) B and My read कारयेत्. (2) 'M reads खोटतां. (3) शुद्धाभ्रपलमेकं तु, a variant in K. (4) पलैकं गन्धकस्य च, a variant in M. This charaṇa and the next one are not found in My. (5) B and My read हि. After this charaṇa we do not find 70 (117—187) ślokas in M. (6) B has अंगुलिकां, which seems to be incorrect. (7) K and My read सूतक:. (8) K reads शोधयेदेतत्, which seems to be incorrect. My reads खोटं संशोघयेत् श्वेत. (9) हेमा सहलजावर्त्य, a variant in B. (10) B reads वृद्धवेधं.
43