सामग्री पर जाएँ
सर्वकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 345, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 345

३२२ रसा‌र्णवे
देहलोहकरो यश्च¹ पारदो लोहवत्² प्रिये ॥ ३३ ॥
नीलवर्णस्तु वैक्रान्तो³ म्रियते⁴ रससंयुतः ॥ ३४ ॥
कृष्णाभ्रकेण⁵ सहितं मधुसर्पिर्युतं च यत् ।
भक्षयेन्मण्डलं देवि जीवेच्चन्द्रार्कतारकम् ॥ ३५ ॥
यस्य यस्य हि यो योगः तस्य तस्य प्रयोगतः ।
मेलयित्वा रसं गुञ्जा-मानं षिमधुसंयुक्तम् ॥ ३६ ॥
पथ्यं क्षीराज्यशाल्यन्नं⁶ भोज्यमन्यच्च⁷ वर्ज्जयेत् ॥ ३७ ॥
[ एकान्ते मक्षिकामध्ये निर्वासः संस्थितो नरः ।
रसमृत्युञ्जयो मन्त्रः सदा जप्यो हृदन्तरे ॥
पशूनां विमुखस्तत्र स्त्रीणां चैव न दर्शनम् ।
भस्मोद्धूलितसर्वाङ्गो मन्त्रध्यानपरायणः ।
वत्सरं क्रमते मर्त्यस्तस्य सिद्धिर्न संशयः ॥ ]⁸
वैक्रान्तसत्त्वसंयुक्तं⁹ लुङ्गाम्ले मर्दयेद्रसम्¹⁰ ।


(1) K reads यस्य. (2) K reads पारदो लोहवत्. (3) After
this charana we find the following hemistich in B only—
वह्निमध्ये यथा तिष्ठे अचंचला महारसा ।
which we have rejected for its incongruousness. (4) D reads
मृतये. M reads म्रियते. Both are incorrect. (5) This śloka and
the next forty-three ( i. e. 35—78 ) are not found in B. (6) D has
खोटं क्षारान्यशाल्यन्न, M has खोटं क्षीराज्यशाल्यं नं. My has खोटं वैक्रान्तशाल्यन्नं.
(7) D reads भोज्यमन्यत्तु. (8) The portion within brackets is foun (
only in K MS. (9) D reads वैक्रान्तं सत्वसंयुक्तं, which seems to be
inc. K reads सत्वसंयुक्तो, which is gram. inc. (10) D and K have
लुंगाम्लेन मर्दयेद्रसम् M has तलुङ्गाम्लेन मर्दयेत्, which appears to be inc.