रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 334, कुल 558 में से
संदर्भ में पढ़ेंचतुर्दशः पटलः । ३११
मृतवज्रस्य भागैकं भागाः षोडश हाटकम्¹ ।
श्वेतकाचस्य चूर्णं तु भागान्² षोडश दापयेत् ॥ १५६ ॥
अन्धमूषागतं³ ध्मातं वज्रबन्धं तु⁴ कारयेत् ।
अनेन क्रमयोगेन सप्तवारांश्च⁵ दापयेत् ।
मिलति तत्क्षणं वज्रं⁶ हेम्ना तु सलिलं यथा ॥ १५७ ॥
चूर्णं नरकपालस्य⁷ मृतवज्रं⁸ तु दापयेत् ।
अन्धमूषागतं ध्मातं हेम्ना मिलति तत्क्षणात्⁹ ॥ १५८ ॥
भृङ्गपद्मं वृकेत्रं च¹⁰ मृतकान्तं सटङ्कणम्¹¹ ।
बालवत्सपुरीषं च स्त्रीस्तन्येन च¹² पेषयेत् ॥ १५९ ॥
मूषालिपं¹³ ततः कृत्वा वज्रे हेम च¹⁴ दापयेत् ।
अन्धमूषागतं¹⁵ ध्मातं वज्रं मिलति नान्यथा ॥ १६० ॥
(1) D has an incomplete charana भागशोभ हाटकम्. (2) B has
भाग. D has भागः. K has भागाः. All the texts appear to be incorrect.
(3) Both D and K read अंधमूषागतं. (4) B has वज्रबंधं तु. D
has वज्रवज्रं तु. (5) B reads सप्तवारं तु. (6) This charaṇa
and the next are not found in B. D has मिलिते तत्क्षणाद्वजे, which is
not grammatically correct. (7) This charaṇa and the next
are not found in B. K reads र चूर्णं रत्नकपालस्य, which is senseless.
(8) D reads मृतं वज्रं. (9) This charaṇa and the next seven are
repeated in D. (10) D reads मृगपद्मं च केत्रं च. K reads भगक्षयं,
which has no sense. (11) मृतं कान्तस्य टङ्कण, a variant in B. K
reads मुखं. (12) K wants च, so the charaṇa being incomplete.
(13) K reads मूखालिपं. (14) B and K read वज्रं हेम च. (15)
K reads अंधमषागत