रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 329, कुल 558 में से
संदर्भ में पढ़ें३०६ रसार्णवे
शङ्खचूर्णपलैकं तु^1 पलैकं टङ्कणस्य च ।
एकौकृत्याथ^2 तत् सर्व्वं वञ्चीक्षीरेण पेषयेत्^3 ॥ १३० ॥
आरख्योत्पलकैः^4 पश्चात् पुटं दद्याच्चतुष्टयं ।
रसोऽयं यवमात्रेण^5 वङ्गं स्तम्भयति क्षणात्^6 ॥ १३१ ॥
रूक्षाभ्रकपलैकं तु^7 द्वे पले मृतसूतकम्^8 ।
गन्धकस्य पलञ्चैकं^9 एकीकृत्याथ^10 मर्दयेत् ॥ १३२ ॥
मर्द्यमानं प्रयत्नेन गोलकं भवति क्षणात् ॥ १३३ ॥
मृतवङ्गस्य भागैकं^11 चतुर्भागं च^12 गोलकम् ।
मर्दयेत् प्रहरैकं तु^13 भस्मीभवति सूतकः^14 ॥ १३४ ॥
आरख्यगोमयेनैव^15 पुटं दद्यात्तु^16 भूधरे ।
अनेन क्रमयोगेण सप्तसङ्खलिकां^17 कुरु ॥ १३५ ॥
(1) D reads पलेन तु, which is not correct. (2) K and M
read एकीकृत्वाथ, which is incorrect. (3) M reads पोषयेत्. (4)
D has आरख्योपलकैः. K has आरण्योत्पलकैः. (5) D reads पलमात्रेण.
(6) D reads स्तभ्यते. K reads erroneously स्तंभ मर्दयेत्. (7) D has
रूक्षाभ्रकं पलैकं तु. This charana and the next two are not found in K.
(8) B reads द्विपले. D reads द्विपलेनैव सूतकम्. M wants this charana
and the next two. (9) D reads पलैकं च. (10) B has वज्री-
क्षीरेण. (11) D reads भागं च. (12) D reads चतुर्भागस्य. M
reads मृतवङ्गस्य. (13) B reads तप्तखल्वेन. D reads प्रहरकं तु. (14)
D reads सूतकम्. K has स......, an incomplete charana. (15) D
reads अजाविण च तेनेव. M reads आरण्य instead of आरख्य. (16) D
reads दद्याच्च. (17) B reads संकुलिकां. K reads शृंखलिकां, which
is incorrect.