रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 31, कुल 558 में से
संदर्भ में पढ़ेंप्रथमः पटलः । ७
तत्फलं कोटिगुणितं रसलिङ्गार्च्चनाद्भवेत् ॥ ४३ ॥
अधमः खगवादस्तु¹ बिलवादस्तु मध्यमः ।
उत्तमो मन्त्रवादस्तु रसवादो महोत्तम² ॥ ४४ ॥
मन्त्रतन्त्रपरिज्ञाने रसयोगस्य³ दूषकाः⁴ ।
प्रयान्ति नरकं⁵ सर्व्वे कृत्वा सुकृतसञ्चयम् ॥ ४५ ॥
रसविद्या परा विद्या त्रैलोक्येऽपि सुदुर्लभा⁶ ।
भुक्तिमुक्तिकरी यस्मात् तस्माद्धेया गुणान्वितैः ॥ ४६ ॥
अस्तीति भाषते कश्चित् कश्चिन्नास्तीति भाषते ।
आस्तिके तु भवेत्सिद्धिः⁸ तस्य सिद्ध्यति भूतले ॥ ४७ ॥
नास्तिकेनानुभावेन⁹ नास्ति नास्तीति यो वदेत् ।
तस्य नास्ति प्रिये सिद्धिर्जन्मकोटिशतैरपि ॥ ४८ ॥
ब्रह्मज्ञानिन मुक्ताऽसौ पापी यो¹⁰ रसनिन्दकः ।
(1) M reads खन्यवादस्तु. रससार reads शून्यवाद in place of खगवाद, and
क्षेत्रवाद in place of बिलवाद. (2) रसवादात्तमोत्तमः, a variant in M, which
is gram. inc. (3) रसो योगस्य, a variant in K, which seems to be inc.
M reads रसवादस्य. (4) K reads दूषकः, which is inc. M reads भूषकाः,
which deteriorates the sense. (5) K reads रसकं, which has no sense
here. (6) M reads च दुर्लभा, which agrees with र. चि. (7) मुक्ति-
भुक्तिकरी यस्मात् तस्माज्ज्ञेया गुणान्विता is the reading in र. चि. (8) अस्तीति
भाषते यंस्तु, a variant in M. (9) नास्तिकेन तु वादेन, a variant in M.
(10) M reads पापीयान्. सोऽयुक्तो यः पापी, a variant in र. चि.