रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 283, कुल 558 में से
संदर्भ में पढ़ें२६० रसार्णवे
ज्ञात्वा कालप्रमाणेन बन्धयेत्¹ पारदं ततः ॥ ३२३ ॥
रक्तक्षारयुतं खातं सुवर्णं समसारितम्² ।
शतांशेन तु लोहानां सर्वेषां हेमकारकम्³ ॥ ३२४ ॥
द्वितीयसारणां⁴ प्राप्य भक्षयेन्मधुसर्पिषा⁵ ।
तत्कालं चित्तजातानां⁶मूर्द्धं भवति चानिलः⁷ ॥ ३२५ ॥
कालज्ञानं भवेत्तस्य जीवेद्युतपञ्चकम् ॥ ३२६ ॥
द्वितीयसारणां प्राप्य सहस्रांशेन विध्यति⁸ ।
तं खोटं⁹ धारयेद्वक्त्रे दिव्यत्वं लभते ध्रुवम्¹⁰ ॥ ३२७ ॥
निचुले¹¹ ककुभे चैव किंशुके मधुकेऽपि वा¹² ।
इङ्गुदो¹³फलमध्ये वा रजनीद्वयमध्यतः¹⁴ ॥ ३२८ ॥
(1) M reads बद्धयेत्. (2) K reads ममारितं M reads समवारि-
तम्. (3) B has an incomplete charaṇa सर्वेषां वेधकं. M reads मारकम्
(4) B and K read सारणं. (5) This charaṇa and the next four
ones are not found in M. (6) तत्कालचित्तज्ञानां, an incomplete
variant in K. (7) K reads चानिले. (8) M reads बिन्दति
(9) B reads ततखोटं. M reads त श्लैन्. (10) M has an incorrec-
variant—लव्यत्वं लभते ध्रुवम्. (11) K reads निवजे. M reads निचुर्वे
Both appear to be incorrect. (12) K reads च. M reads erro-
neously किशुके मधुके पि वा (13) This hemistich and the next on-
are not found in K. M reads हिङ्गुदी, which is incorrect (14)
रजनी चैव टकने, a variant in B. M reads मध्यगे, which is not correc-
After this charaṇa we have a śloka in this text only which runs thu-
—अमृते कन्दे वाथ उक्तकन्दौषधौ न च । विधाय वाटकतत्र क्षिप्त्वा तेनैव साधयेत् ।
which we have not adopted for its incorrectness.