रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 270, कुल 558 में से
संदर्भ में पढ़ेंद्वादशः पटलः । २४७
अथवोदक¹मादाय पारदञ्च² मनःशिलाम् ।
मर्दयेत् खल्लपाषाणे³ नष्टपिष्टं भवेत्ततः ॥ २५५ ॥
स्वेदयेत् सप्तरात्रं तु त्रिलोहेन च वेष्टयेत् ॥ २५६ ॥
अन्तर्द्धानं क्षणाद्गच्छेत् विद्याधरपतिर्भवेत्⁴ ।
सिद्धकन्याशतहृतो⁵ यावत् कल्पान् चतुर्दश⁶ ॥ २५७ ॥
दिनेषु तेषु सर्वेषु दद्याच्छात्योदनं घृतम् ।
पयसा च समायुक्तं नित्यमेवं तु⁷ कारयेत् ॥ २५८ ॥
उष्णोदकविधिं वक्ष्ये समाहितमनाः शृणु ।
पश्येदुष्णोदकं⁸ यत्र वासं तत्रैव कारयेत् ॥ २५६ ॥
अस्ति गोदावरी नाम महाराष्ट्रे⁹ऽतिविश्रुता ।
तस्या उत्तरभागे तु सह्याद्रिः पुण्यपर्वतः¹⁰ ॥ २६० ॥
(1) D reads अथ चोदक. (2) D reads मारीचं तु. (3) The
word खल्ल is not found in D. All other texts read खल्ल. (4) विद्या-
धरपतिर्भवेत्, a variant in D. सिद्धारपतिर्भवेत्, a variant in K. (5)
D reads प्रान्तहतो. (6) D and K read कल्पचतुर्दश. (7) M reads
सद्यमेवन्तु. After this charana we find the following three hemistichs in
K only, which we have not adopted on account of their erroneousness
and redundancy. They are as follow:—ते सर्वे पुरुषास्तस्य दर्शनाय सम्मिलिताः । ताः
कन्यास्तममृतं दद्युः सिद्धकामो भवेन्नरः । वलीपलितनिर्मुक्तो जीवेच्चंद्रार्कतारक । इति विषो-
दकसंजीवनजलकल्पः । (8) M has भवत्युष्णोदकं. (9) D reads महा-
राष्ट्रे. This hemistich and the following seven ones are not found in
M. (10) D has सह्याद्री पुण्यपर्वतः, wherein the first word is incorrect.
K has सह्याद्रिः पुण्यपावनः, wherein also the first word is incorrect.