रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 256, कुल 558 में से
संदर्भ में पढ़ेंद्वादशः पटलः । २२१
पूर्णमास्यां¹ च रात्रौ च गत्वा तस्य समीपतः² ।
चन्द्रोदकं तु संगृह्य³ मन्त्रयुक्तं सुमन्वितम्⁴ ।
आलोड्य मधुसर्पिभ्यां पिबेत्तत्तु⁵ समाहितः ॥ १८४ ॥
पीतमात्रेण तेनैव मूर्च्छा भवति तत्क्षणात्⁶ ।
चन्द्रोदये ततो दृष्टे⁷ क्षीरं तस्य तु दापयेत् ।
सप्तरात्रप्रयोगेण⁸ चन्द्रवन्निर्मलो⁹ भवेत् ॥ १८५ ॥
एकविंशतिरात्रेण¹⁰ जीवेद्¹¹ब्रह्मादिनत्रयम् ।
एकमास¹²प्रयोगेण ब्रह्मायुः स भवेन्नरः¹³ ॥ १८६ ॥
चन्द्रोदकेन गगनं रसं हेम च¹⁴ मर्दयेत् ।
मूषा¹⁵मध्यगतं ध्मातं तत्क्षणाद्गुटिका भवेत् ॥ १८७ ॥
(1) M reads पौर्णमास्यां. (2) गत्वा तु तत्समीपतः, a variant in
K. (3) D reads संयाह्वं. (4) K reads समंन्वितं. (5)
D reads पिबेत्तं तु. M reads पिबेत्तन्. Both are gram. incorrect. (6)
सूत बध्नाति तत्त्ववशात्, a variant in D. (7) चन्द्रोदयेन ते दृष्टे, a variant
in D. M reads ततस्तिष्ठेत्, which is gram. inc. (8) M reads
षर्धमासे प्रयोगेण. (9) M reads निर्मल भवेत्, which is not gram.
correct. (10) प्राकृविंशत्तिचारेण, a variant in D, which has no
clear sense. एकविंशतिशारेण, a variant in K. (11) K reads रुपेद्र,
which is inaccurate here. (12) D reads षह्मास. (13) ब्रह्मा-
युर्जायते नरः, a variant in D, wherein the first term is incorrect. K
reads ब्रह्मायुर्जीयते नरः, wherein the middle term is gram. incorrect.
(14) Both D and K read हेमं च ; [but the word is usually spelt as
हेमन्.] (15) K reads मूछा (= मूषा).
30