रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 242, कुल 558 में से
संदर्भ में पढ़ेंद्वादशः पटलः। २१८
कुनटीं गन्धचूर्णंञ्च¹ सर्व्वमेकत्र मर्दयेत् ॥ १२० ॥
अनेनैव प्रकारेण निशार्द्धं हेम शोधयेत् ।
गुटिकाकृत्य तेनैव² नागं विध्यति³ तत्क्षणात् ॥ १२१ ॥
अथातः स्थलपद्मिन्या⁴ दिव्यौषध्या विधिं शृणु ॥१२२॥
पद्मिनीसदृशी पत्रैः⁵ पुष्पैश्चापि च तादृशी⁶ ।
भङ्गे चैव⁷ भवेत् क्षीरं रक्तवर्णं सुशोभनम् ॥ १२३ ॥
आक्रम्य⁸ वामपादेन पश्येद्गगनमण्डलम्⁹ ।
पश्येच्च¹⁰ तारकायुक्तं¹¹ गहनञ्चत्रमण्डलम् ।
लक्षयोजनतो¹² देवि सा ज्ञेया¹³ स्थलपद्मिनी ॥ १२४ ॥
तस्याः¹⁴ पञ्चाङ्गमादाय हरगौरीसमन्वितम् ।
मनःशिलातालयुक्तं माक्षिकेण समन्वितम् ॥ १२५ ॥
(1) K reads कुनटीं गन्धकं चूर्णेन, which seems to be partially in-
correct. (2) D reads गुटिकाकृता तेनैव. K reads गुटिकाकृतामानेनैव.
M reads पुटीकृत्यन्तु तेनैव. All these texts are partly incorrect. (3)
D reads वेधति, which ought to have been वेधयति. (4) D
has प्रध्याम्यसा पद्मिन्या, an incomplete and incorrect charana. (5)
पद्मिनी तु शुभपत्रैः, an incorrect reading in D. M reads पद्मिनीसदृशा
पत्रैः. (6) M reads पत्रैरपि च तादृशैः, wherein the first term
is tautological. (7) M reads भङ्गेऽपि च. (8) D reads
प्राक्रम्य. (9) पश्येदूर्ध्वं तु मण्डलम्, a variant in D. (10) D has
दृश्येष, which has no sense. (11) M reads तारकालोक. (12)
M has लक्षयेज्जायतौ, which has no sense. (13) D reads सा गेयाथ,
which mars the metre. (14) Four hemistichs commencing
from तस्याः are not found in M.