रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 233, कुल 558 में से
संदर्भ में पढ़ें२१० रसार्णवे
अक्षयं च¹ वरारोहे वह्निमध्ये न² तिष्ठति ॥ ७५ ॥
न खोटो नैव वाहस्तु नैव द्रव्यं करोति सः ।
किं तत् द्रव्यं प्रकुर्वीत धास्यमानो न तिष्ठति ॥ ७६ ॥³
पत्रे पाके कटे छेदे⁴ नैव तिष्ठति काञ्चने⁵ ।
न वेधं च शतादूर्ध्वं⁶ करोति स रसः⁷ प्रिये ॥ ७७ ॥
यावन्न बद्धमेकान्तु⁸ विक्रीतं तत्तु काञ्चनम् ।⁹
धर्मार्थकाममोक्षार्थं¹⁰ नैव दद्यात्तु तत् प्रिये ॥ ७८ ॥
श्रीदेव्युवाच ।
निर्जीवत्वं¹¹ गतः सूतः कथं जीवं ददाति च¹² ।
निर्जीवेन तु निर्जीवः कथं जीवति शङ्कर ॥ ७९ ॥
श्रीभैरव उवाच ।¹³
दिव्यौषध्या यदा¹⁴ देवि रसेन्द्रो मूर्च्छितो¹⁵ भवेत् ।
(1) D reads अक्षयं न. M reads स रसस्तु. (2) M reads
च. (3) This śloka is found only in M. (4) पचे वा पक्ककं
दैवा, a variant in D. पचे दाहे निकषे च, a variant in M. (5) नैव
तिष्ठति काञ्चनम्, a variant in D. छेदने नैव काञ्चने, a variant in M.
(6) च is wanting in D. च शता is wanting in K. M reads त्रितादूर्ध्वं,
which is not correct. (7) D has an absurd reading चां करोति
रसस्तः. (8) M reads यावन्न बाष्टरेकान्तु. (9) This hemistich
is not found in K. (10) D reads मोक्षार्या, which is incorrect.
(11) D reads निर्जीबत्वं. K reads सजीवत्वं. (12) K reads सः.
(13) This is wanting in M. (14) यदा is wanting in D.
M reads यथा, which is incorrect. (15) M reads मर्दितो, which
is grammatically incorrect.