रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 157, कुल 558 में से
संदर्भ में पढ़ें१३४ रसार्णवे
ताप्येन वा मृतं हेम त्रिगुणेन निवापितम्¹ ।
भाण्डिकायां² तु रसकं ताप्य³सैन्धवसंयुतम् ॥ ४७ ॥
इन्द्रगोपनिभं यावत् सत्त्वं द्विगुणजारणात् ।
द्रुतं⁴ हेमनिभं सूतं कुरुते नात्र संशयः ॥ ४८ ॥
अभ्रकं हेम ताम्रं च शिलया⁵ माक्षिकेण च ।
गैरिकेण च मुख्येन रसकेन च रञ्जयेत् ॥ ४६ ॥
बीजानि रञ्जितान्येवं⁶ पक्वबीजान्यतः⁷ शृणु ॥ ५० ॥
महारसानुपरसान्⁸ तीक्ष्णलोहानि च चयेत्⁹ ।
समांशं सममाक्षिकं गन्धकावापयोगतः ॥ ५१ ॥
शतशो वापयेदेतत्¹⁰ अच्छौषं सावशेषितम्¹¹ ।
समांशं रसराजस्य गते द्रवति निक्षिप्तम्¹² ॥ ५२ ॥
तदेतद्द्विष्टिकास्तम्भे जारणायां सुरेश्वरि ।
रञ्जने रसराजस्य सारणायां च शस्यते ॥ ५३ ॥
तदेवं¹³ शतशो रक्तगणैः स्नेहन्निषेचितम्¹⁴ ।
(1) M reads विपाचितम्. (2) हुण्डिकायां, a reading in K.
(3) K reads रसकताप्य. M reads रसकान्तगव्य, which is unintelligible.
(4) M reads मृत. (5) M reads शिलायां. (6) बाजानां रञ्जना-
म्ब्येव, a variant in M. (7) M reads पक्वबीजमतः. (8) M has
महारसानूपरसा. (9) K reads वच्चाते, which is gram. inc. M reads
कीष्णलोहानि, which is unintelligible. (10) शतशो वा भवेदेतत्, a
variant in M. (11) K has an incomplete charaṇa—अच्छौ सावशेषितं.
(12) This charana and the next three charanas are not found in K.
(13) M reads तदैव. (14) K has निषेचित. M has रक्तगणस्नेहा—षञ्चितम्.