रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 112, कुल 558 में से
संदर्भ में पढ़ेंषष्ठः पटलः । ८८
सत्त्वणान्भ्रियते¹ वज्रं तारे हेम्नि न संशयः ॥ ११२ ॥
जम्बोरफलमध्यस्थं वस्त्र²पोटलिकागतम् ।
क्वाथयेत् कोद्रवक्वाथे³ क्रमेणानेन तु त्र्यहम्⁴ ।
तद्वज्रं जायते खोटं⁵ हेम्ना मिलति तत्क्षणात्⁶ ॥ ११३ ॥
नागवल्लाग्रा प्रलिप्तं तु तत्पत्रेणैव⁷ वेष्टितम् ।
जातुमध्ये⁸ स्थितं यामं मृदु सञ्जायते ध्रुवम्⁹ ॥ ११४ ॥
मूले वज्रलतायास्तु मृदु वज्रं विनििक्षिपेत् ।
पुटं दद्यात् प्रयत्नेन भस्मीभवति¹⁰ तत्क्षणात् ॥ ११५ ॥
सुखाद्मकरं ह्याशु¹¹ सत्त्वं मुञ्चति तत्क्षणात् ।
सर्व्वमृत्युप्रशमनाः¹² सर्व्वसिद्धिकराश्च ते¹³ ॥ ११६ ॥
अस्थिशृङ्खलमध्यस्थं¹⁴ कृत्वा वज्रं विरञ्चितम्¹⁵ ।
(1) M reads तत्क्षणान्म्रियते. (2) K reads वज्रं पोटलिकागतम्. M
reads वस्त्रपंटलकागतम्. (3) K reads कोद्रवक्वाथैः. (4) M reads
त्यह, which is senseless. (5) B has only खो. M reads खोट.
(6) K reads लक्षणात्. (7) M reads तत्पत्रेनैव, wherein 'न' is gram.
inc. (8) K reads योनिमष्ये. (9) K has संज्ञायते द्रुतम. (10) K
reads मियते देवि. (11) K has सुरद्वक्षं करेण्याशु, which has no clear
sense. M has सुखादवडकग ह्याशु. (12) सर्वमृत्युप्रशमना (without विसर्ग),
a variant in B. सर्वमृत्युः प्रशमनाः, a variant in K. सुवमृत्युप्रशमन, a variant
in M. All are incorrect. (13) सर्व सिद्धिरताश्च ते, a reading in B,
which is not correct. सर्वव्याधिशताश्च ते, a reading in M, which is absurd.
(14) K reads अस्थिशृगालमध्यस्थ. M reads अथ शृङ्खलमध्यस्थं. (15) विगट्-
इतं, a reading in K. M has a defective charana – कृत्वा वज्रं विरं च तत्
12