रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 109, कुल 558 में से
संदर्भ में पढ़ें८६ रसार्णवे
कान्तस्य पिष्टिकामध्ये वज्रं देवि विनिक्षिपेत् ।
पेषयेद्गन्धतैलेन म्रियते वज्रमौख्वरि ॥ ९६ ॥
कुलत्थाभसि¹ कासोससौराष्ट्रोतालकान्विते² ।
अपामार्गक्षारयुतं³ वज्रं सिक्तं मृतं भवेत् ॥ ९७ ॥
अमृताकन्दतिमिर-वोजालक्तक्चीरवेष्टितम् ।⁴
मेषशृङ्गगतं⁵ वज्रं सृल्लिप्तं म्रियतं पुटैः ॥ ९८ ॥
पेटारी हंसपादी च वज्रवल्लो च सूरणम् ।
अश्वत्थस्याङ्कुरा देवि सर्व्वं स्त्रीस्तन्यपेषिता⁶ ॥ ९९ ॥
अनेन सिद्धकल्केन वेष्टितं बृहतीफले⁷ ।
क्षिप्तं वह्निर्मुदा⁸ लिप्तं म्रियते सप्तभिः पुटैः ॥ १०० ॥
श्वेतेन्दुरेखापुष्पाम्बु⁹-गन्धकत्रयमाक्षिकैः¹⁰ ।
वेष्टितं कुलिशं देवि पुटपाकात्¹¹ मृतं भवेत् ॥ १०१ ॥
अश्वत्थबदरीभिण्डो¹²-माक्षिकं¹³ कर्कटास्थि¹⁴ च ।
(1) B reads कुलित्याम्भसि. M reads कुलस्थाम्भस, which is incorrect.
(2) K has तालकान्वितम्. M has an incomplete and incorrect charaṇa
सहितालखानिते. (3) अपामार्गाक्षारयुक्ते, a variant in M. (4) This
hemistich is not found in K. This śloka and the next four ślokas
(98—102) are not found in M. (5) B reads मेषभृङ्गगवे, which
has no sense. (6) K reads पेषिता (without विसर्ग), which is gram.
inc. (7) K has वृहतीफलं. (8) K reads क्षिप्ता वह्नौ मृदा. (9) B
reads श्वेतोंदुरखा. K reads श्वेतांदुरखा. Both are inc. (10) गन्धकं माक्षिकैः
सह, a variant in K. (11) B has पुटं पाकात्. (12) B reads बदरि.
K reads भाण्डी. (13) B reads माक्षिकं. (14) K reads कच्छपास्थिः