रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 102, कुल 558 में से
संदर्भ में पढ़ेंषष्ठः पटलः । ७९
त्रिंशच्चुम्बककान्तं च¹ पिष्ट्वा तु त्रिफलाम्भसा² ।
तेनैव चालनं कार्यं पञ्चनिष्कं तु टङ्कणम् ॥ ५८ ॥
जीर्णवस्त्रे³ विनिक्षिप्य मधुसर्पिर्युतं पुटेत् ।
संस्थाप्य मासपर्यन्तं तत्र शुद्धिर्भवेत्प्रिये ॥ ६० ॥
सिनाड़िकाया मूलं तु⁴ दशनिष्कमितं युतम्⁵ ।
फलत्रय⁶कषायेन खल्ले⁷ तु परिमर्दयेत् ॥ ६१ ॥
त्रिन्मूषासु समं स्थाप्य⁸मष्टाङ्गुलमितासु च ।
मूषका⁹लेपनं कार्यं तन्मूलं निष्कमात्रकम् ॥ ६२ ॥
शिवपञ्चमुखौकार्ये¹⁰ मूषां¹¹ प्रति समं ततः ।
यन्त्रहस्ते सुसंबध्य¹² खोटकं च¹³ शिलातले ॥ ६३ ॥
तैलेन मिश्रितं कृत्वा कान्तनागं¹⁴ लभेत्ततः ।
'(1) त्रिंशांशं चुम्बकान्तं च, a variant in K. (2) पिष्ट्वा तु लवलाम्भसा,
a variant in M, which is incorrect. (3) M reads जीर्णे वस्त्रे.
(4) B has स्निनाषिकोलात् मृतं तु, which has no clear sense. M has
सौनाड़िकाया मूलं तु. (5) K reads दशनिष्कावृतं मितं, which seems to be
inaccurate. (6) M reads बलत्रय. (7) All the MSS. read खले.
(8) K reads विमुखासु समास्थाप्य. M reads विन्मूषासु संस्थाप्य, which is a
defective charana. (9) M reads मूषिका. (10) B has शिव-
पञ्चमृत्तौकार्ये. K has शिवपञ्चमृगौकार्ये. M has शिवपञ्चमषौकार्ये. (11) K
reads मूखां. M reads मूषा, which is gram. inc. (12) यन्त्रहस्ते वधः सर्वै,
a variant in K. यण्द्रस्ते तु सम्बध्य, a variant in M. (13) B reads
खोटकं च. M reads तट्कञ्च. (14) B reads कान्ते नागं. M reads
कान्तं नांगं.