सामग्री पर जाएँ
सर्वकोश
रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

Ramayana Mimamsa of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished1,049 पृष्ठ

पृष्ठ 990, कुल 1049 में से

संदर्भ में पढ़ें
पृष्ठ 990

९१६ रामायणमीमांसा परिशिष्ट
चरुं श्रपयेत् । अत्राग्नौ साङ्गावरणं रामं पूजयेत् । समिदाज्यचरूणां प्रत्येकं षोडशाहुतीः मूलमन्त्रेण जुहुयात् ।
परिवारेभ्यो विनायकादिभ्यस्तिस्र आहुतीः, द्वाराङ्गपरिवारेभ्यः सुरेभ्यः पुनस्तिस्र आहुतीराज्येन तत्तद्द्रव्यैश्च मनोहरै-
द्वारपीठसुरेभ्यो जुहुयात् । अङ्गादिवैष्णवान्तेभ्यः पृथक् पृथक् तिस्र आज्याहुतीर्दत्वा घृतेन स्विष्टकृतं हुत्वा जलेन विधिवत्
समन्ततः परिषिञ्चेत् । प्रणीतामार्जनं कृत्वा स्ववित्तानुसारेण ब्रह्मणे दक्षिणां दद्यात् । ततो ब्रह्माणमुद्वास्य ब्राह्मणान्
भोजयेत् । अग्निमध्यगतं देवं पुनः स्वात्मनि योजयेत् । एकीभूतं विचिन्त्य स्वस्तिवाचनं कारयेत् । विदुषामाशीर्वचो-
भिरेधमानः हुतशेषं प्राश्य कुक्कुटाण्डप्रमाणकं रामगायत्र्याभिमन्त्रितं तस्मै बलि हरेत् । इति अग्निमुखविधानम् ।
अथाभिषेकः—कलशस्थाय रामाय पुष्पाञ्जलिं दत्त्वा शिष्यमुपानीय प्राणानायम्य भूतशुद्ध्यादिकं विधाय
बहुभिः ब्राह्मणैः सह तं मूर्ध्नि अभिषिञ्चेत् । तत्र मन्त्राः—
“सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।
वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः ॥
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ।
आखण्डलोऽग्निर्भगवान् यमो वै निर्ऋतिस्तथा ॥
वरुणः पवनश्चैव धनाध्यक्षस्तथाश्विनौ ।
ब्रह्मणा सहिता होते दिक्पालाः पान्तु ते सदा ॥
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः ।
बुद्धिर्लज्जा वपुः शान्तिर्माया निद्रा च भावना ॥
एतास्त्वामभिषिञ्चन्तु तुष्टिः कान्तिः क्षमा तथा ।
आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः ॥
ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः ।
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥
ऋषयो मनवो गावो देवमातर एव च ।
देवपत्न्यो ध्रुवा नागा दैत्याश्चाप्सरसां गणाः ॥
अस्त्राणि चैव शस्त्राणि राजानो वाहनानि च ।
औषधानि च रत्नानि कालस्यावयवाश्च ये ॥
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ।
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥”
इति वशिष्ठसंहितोक्ता मन्त्रा रामार्चनचन्द्रिकायाम् ।
“नारायणः स्वयं रामः शिष्ये सन्निदधातु वै ।
सर्वंगः सर्वतोऽप्यस्ति प्रसीदतु दयानिधिः ॥
इति संस्मृत्य संस्मृत्य तज्जलैरभिषेचयेत् ।” इत्यभिषेकः ।
अथ मन्त्रदीक्षा—
सुवासः परिधाय चन्दनाद्यवलिप्य कुण्डले अङ्गुलीयकञ्च धारयित्वा न्यसेत् । शिष्यशिरसि स्वस्य हस्तं दत्त्वा
मनुमष्टोत्तरशतं जपित्वा उदकपूर्वकं मन्त्रं दद्यात् । आवयोस्तुल्यफलदो भवत्वैवमुदीरयेत् । प्रसन्नवदनो गुरुर्ज्योतिर्मयीं
विद्यां शिष्ये गच्छन्तीं भावयेत् । शिष्यश्च तादृशीमागतां विद्यां भावयेत् ।