रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 554, कुल 1049 में से
संदर्भ में पढ़ेंअध्याय अरण्यकाण्ड ४७७
करिष्यसे किमनया वद राघव साम्प्रतम् ।
श्रुत्वा स नोक्तपूर्वं तु वाक्यं लक्ष्मणभाषितम् ॥१३६॥
विमना राघवस्तस्थौ सीता चापि वरानना ॥१३७॥
श्रीराम उवाच
एह्युत्तिष्ठस्व सौमित्रे व्रजामो दक्षिणां दिशम् ।
सौमित्रिरब्रवीद् वाक्यं नाहं यास्ये कथञ्चन ॥१३९॥
व्रज त्वमनया सार्धं भार्यया कमलेक्षण ॥१४०॥
अनारतं दिवा चाहं रात्रौ चैव परन्तप ॥१४६॥
कर्म कर्तुं न शक्नोमि व्रज सौम्य यथासुखम् ॥१४७॥
मा मानुव्रज सौमित्र एको यास्यामि काननम् ।
द्वितीया मे त्वियं सीता रामेणोक्तस्तु लक्ष्मणः ॥१५२॥
अथ गृह्य समुत्तस्थौ रामवाक्यं स लक्ष्मणः ।
मर्यादापर्वतं प्राप्तः क्षेत्रसीमां परन्तप ॥१५३॥
इन्द्रमार्गां नदीं प्राप्य जटाजूटं नियम्य च ।
विहस्य लक्ष्मणेत्युक्त्वा इदमर्पय मे धनुः ॥१८१॥
नापराध्यामि रामस्य कर्मणा मनसा गिरा।
उभौ हस्तौ मुखे कृत्वा साश्रुकण्ठोऽब्रवीदिदम् ॥१८६॥
स्पृष्टौ ते चरणौ देव मम नान्या गतिर्भवेत् ।
ततः सीताब्रवीद् रामं त्यक्तः किमनुजस्त्वया ।
वैषम्यं त्यज्यतां बाले लक्ष्मणे लक्ष्मिवर्धने ॥१८७॥
राघवस्त्वब्रवीत्सीतां नाहं त्यक्ष्यामि लक्ष्मणम् ॥
न कदाचिदपि स्वप्ने लक्ष्मणस्येदृशं प्रिये ।
श्रुतपूर्वं च सुश्रोणि क्षेत्रस्यास्य विचेष्टितम् ॥१८८॥
अत्र क्षेत्रे न सौभ्रात्रं सर्वे हि स्वार्थतत्पराः ।
परस्परं न मन्यन्ते स्वार्थनिष्ठैकहेतवः ॥१८९॥
न शृण्वन्ति पितुः पुत्राः पुत्राणां च तथा पिता ।
न शिष्यो हि गुरोर्वाक्यं शिष्यस्यापि तथा गुरुः ॥
अर्थानुबन्धिनी प्रीतिर्न कश्चित्कस्यचित्प्रियः १॥”१९०॥
× × ×
“हत्वैनं राघवं सुप्तं सीतां पत्नीं विधाय च।
किं गच्छामि निजस्थानं विदेशं वापि दूरतः ॥
लक्ष्मणोऽपि धनुः सज्यं कृत्वा सन्धाय सायकम् ।
अनुव्रजति पृष्ठस्थस्तस्य च्छिद्रं विलोकयन्२ ॥”
× × ×
१. पद्मपुराण सृष्टिखण्ड अध्याय १९ श्लो० १२६-१९० बालमण्डनतीर्थ-माहात्म्य ।
२. स्कन्दपुराण नागरखण्ड अ० २० ।