सामग्री पर जाएँ
सर्वकोश
रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

Ramayana Mimamsa of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished1,049 पृष्ठ

पृष्ठ 1023, कुल 1049 में से

संदर्भ में पढ़ें
पृष्ठ 1023

संख्या १ रामोपासना १४९
प्रेयस्या निमिषं पिबन् प्रियसुधाधारायमाणं गिरां
वखेणाङ्घ्रियुगं प्रमृज्य शयनं चासाद्य सद्यः स्वपेत् ॥
रामं स्कन्दं हनूमन्तं वैनतेयं वृकोदरम् ।
शयने यः स्मरेन्नित्यं स दुःस्वप्नं न पश्यति ॥
मूलं स्मृत्वा जपेद् रामरक्षां विघ्नोपशान्तये ।”
पुरश्चरणम्—
आदौ नियतो नित्यं त्रिकालं पुरुषोत्तममर्चयन् षड् लक्षं जपेत् । शुद्धवारिणा पुष्पाक्षतादियुक्तेन पूजितेन
तद्दशांशेन तर्पयेत् । यतो बिल्वदलैः पुष्पैः पत्रैश्च हुताशने राममावाह्य पूजयेत् । मधुरत्रयसंयुक्तैः पद्मैर्वा पायसेन वा
तिलैर्वाऽन्यतमेनैषां होमः कार्यः । ब्राह्मणान् भोजयेत्ततः ।
“पूजा त्रैकालिकी नित्यं जपस्तर्पणमेव च ।
होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते ॥
गुरोर्लब्धस्य मन्त्रस्य प्रसन्नाच्च यथाविधि ।
पञ्चाङ्गोपासनं सिद्धेः परश्चैतद्विधीयते ॥
निष्कामाणामनेनैव साक्षात्कारो भवेदपि ।
अर्थसिद्धिः सकामानां सर्वं तन्निष्फलं न चेत् ॥
पञ्चाङ्गमेवत् कुर्वीत यः पुरश्चरणं बुधः ।
स वै विजयेते लोके विद्यैश्वर्यसुतादिभिः ॥
आदावन्ते च मध्ये च ब्राह्मणान् भोजयेद् बहून् ।
दिने दिने यथाशक्त्या राममुद्दिश्य भक्तितः ॥”
होमतर्पणमार्जनाशक्तौ दशमांशद्विगुणजपेनाङ्गपूर्णता । मार्जनदशमांशब्राह्मणभोजनन्त्वनिवार्यमेव । शक्तौ तु
शुभपुण्यनक्षत्रवारतिथ्यादौ लौकिकेऽग्नौ यथाविधि संस्कृत्य तिलैः कमलैर्बिल्वप्रसूनैः पलाशकुसुमैर्दुर्वाभिः यथाकामं
जुहुयात् ।
“ध्यात्वापि मन्मथं रामं सीतां चापि रतिं स्मरेत् ।
सर्ववश्यप्रयोगेषु जपहोमादिकर्मसु ॥
न सन्ति गुरवो यस्य नैव दीक्षाविधिक्रमः ।
रामरक्षां वदन्नेव तुलसीदलर्मपयेत् ॥
दीक्षामन्तरशतेनापि न तत्फलमवाप्यते ।”
अथ चैत्रमासादिकृत्यानि । तत्रादौ दोलोत्सवः
“रामभक्तस्य सिद्धयर्थं यदुक्तं नारदादिभिः ।
मधौ शुक्लतृतीयायां जानकीरमणं प्रभुम् ॥
राजोपचारैः सम्पूज्य मासमान्दोलयेत् कलौ ।
दक्षिणाभिमुखं देवं दोलमानं सुरेश्वरम् ॥
सुपूजितं सकृद् दृष्ट्वा सर्वपापैः प्रमुच्यते ।
दोलारूढस्य देवस्य येऽग्रे कुर्वन्ति जागरम् ॥
सर्वपुण्यफलावाप्तिर्निमिषे निमिषे भवेत् ।”