रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 1020, कुल 1049 में से
संदर्भ में पढ़ें९४६ रामायणमीमांसा परिशिष्ट
गीतनृत्यादि । ततः दण्डवत्प्रणम्य प्रार्थना—
"त्वय्येव भक्तिं जनय त्वमेव मामुद्धरास्मात् कृपया भवाब्धेः ।
क्लिश्टं कृपालो न दयास्ति ते चेत्तर्हीश हा कर्मवशो हतोऽस्मि ॥"
तीर्थग्रहणम्— "देवदेव जगन्नाथ शङ्खचक्रगदाधर ।
देहि राम ममानुज्ञां तव तीर्थनिषेवणे ॥
लब्ध्वानुज्ञां ततस्तीर्थे पात्रस्थे मन्त्रमालिखेत् ।
कुशैमूंलं लिखित्वा तु पठेन्मन्त्रमघापहम् ॥
अकालमृत्युहरणं सर्वव्याधिविनाशनम् ।
विष्णोः पादोदकं तीर्थं शिरसा धारयाम्यहम् ॥
तुलस्यर्चा— "या दृष्टा निखिलाघसंघशमनी स्पृष्टा वपुःपावनी
रोगाणामभिवन्दिता निरसनी सिक्ताऽन्तकत्रासिनी ।
प्रत्यासत्तिविधायिनी भगवतः कृष्णस्य संरोपिता
न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ॥"
अपराधक्षमापनम्— "यानेर्वा पादुकैर्वापि गमनं भगवद्गृहे ।
देवोत्सवाद्यसेवा च अप्रणामस्तदग्रतः ॥
उच्छिष्टे चैव चाशौचे भगवद्वन्दनादिकम् ।
एकहस्तप्रणामश्च तत्पुरस्तात् प्रदक्षिणम् ॥
पादप्रसारणं चाग्रे तथा पर्यङ्कबन्धनम् ।
शयनं भक्षणं वापि मिथ्याभाषणमेव च ॥
उच्चैर्भाषा मिथो जल्पो रोदनानि च विग्रहः ।
निग्रहानुग्रहो चैव स्त्रीषु च क्रूरभाषणम् ॥
कम्बलावरणं चैव परनिन्दा परस्तुतिः ।
अक्लिष्ट (अश्लील) भाषणं चैव अधोवायुविमोक्षणम् ॥
शक्तौ गौणोपचारश्च अनिवेदितभक्षणम् ।
तत्तत्कालोद्भवानां च फलादीनामनर्पणम् ॥
विनियुक्तावशिष्टस्य व्यञ्जनादेः प्रदानकम् ।
पृष्ठे कृत्वासनञ्चैव परेषामभिवन्दनम् ॥
गुरौ मौनं निजस्तोत्रं देवतानिन्दनं तथा ।
अपराधास्तथा विष्णोर्द्वात्रिंशत्परिकीर्तिताः ॥
अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व मधुसूदन ॥
इमं मन्त्रं समुच्चार्य प्रणमेद् दण्डवद् भुवि ।
अपराधसहस्राणि क्षमते सर्वगो हरिः ॥”
“एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥”